________________
१७
यत एवं कार्यजनकज्ञानादिसिद्धौ तदाश्रयतया बुद्धिरेव नित्या सिध्येत् न स्वीश्वरः, बुद्धित्वस्यैव ज्ञानाद्याश्रयताबच्छेदकत्वात् । आत्मत्वस्य तदाश्रयतावच्छेदकत्वे तु जन्यज्ञानादीनामप्यात्माश्रिततया विलीनं प्रकृत्यादिप्रक्रिययाः इति किमैज्ञेन सह विचारमपञ्चेन ? |
नैयायिकोक्तरीत्यापि नेश्वरसिद्धिः, तथाहि - कार्येण तत्साधने औयानुमाने नानुकूलस्तर्कः, तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति तत्तत्पुरुषीयपटादिमत्त्वप्रकार कोपादानप्रत्यक्षत्वेन हेतुत्वावश्यकत्वात् ; प्रत्यक्षत्वेन कार्यसामान्यहेतुत्वे मानाभावात् ; चिकीर्षाया अपि मवृत्तावेव हेतुत्वात् कृतेरपि विलक्षणकृतित्वेनैव घटत्व-पटत्वाद्यवच्छिन्नहेतुत्वात् । न च प्रताविव घटादावपि ज्ञानेच्छयोरन्वयव्यतिरेकाभ्यां हेतुत्वसिद्धेः तत्र घटत्व-पटत्वादीनामानन्त्यात् कार्यत्वमेव साधारण्यात् कार्यतावच्छेदकम्, शरीरलाघवमपेक्ष्य संग्राहकलाघवस्य न्याय्यत्वात् कृतेस्तु 'यद्विशेषयोः ०' इति न्यायात् सामान्यतोऽपि हेतुत्वमिति वाच्यम्; कार्यत्वस्य कालिकेन घटत्व- पटत्वादिमत्त्वरूपस्य नानात्वात् ध्वंसव्यावृत्यर्थं देयस्य सत्त्वस्य विशेषणविशेष्यभावे विनिगमनाविरहेणाऽतिगुरुत्वाच्च । न च द्रव्यजन्यतावच्छेदकतया सिद्धं जन्यसत्त्वम्, अवच्छिन्नसमवेतत्वं वा तज्जन्यतावच्छेदकम् ; तथापि प्रत्येकं विनिगमनाविरहात् 'यद्विशेषयोः ०' इति न्याये मानाभावात् । किञ्च, एवं प्रायोगिकत्वमेव शैलादिव्यावृत्तं देवकुलायनुवृत्तं सकलजनव्यवहारसिद्धं प्रयत्नजन्यतावच्छेदकमस्तु, व्याप्यधर्मत्वात्; इदमेवाऽभिप्रेत्य हेतु - विशेषविकल्पने कार्यसमत्वं सम्मतिटीकाकृता निरस्तम् ।
१ भावे क्तप्रत्ययः । २ सांख्यापदेनेत्यर्थः । ३ कार्य सकर्तृकम् कार्यत्वात् इत्यत्र । ४ क. 'त्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org