________________
शास्त्रवार्तासमुच्चयः।
सटीकः । स्तवकः । ॥३॥
, आदिसर्गेऽपि कृतकृत्यस्य- वीतरागस्य, हेतुः- प्रयोजनम्, न विद्यते, ततः कथमादिसर्गमप्ययं कुर्यात् ।। अथेदृशः स्वभाव एवाऽस्य, यत्प्रयोजनाभावेऽप्यादिसर्ग स्वातन्त्र्येणैव करोति, अन्यदा त्वदृष्टाद्यपेक्षयैवेति । अत आह- स्वभावोऽपि- प्रागुक्तः, अप्रमाणकः, धर्मिण एव चाऽसिद्धौ कुत्र तादृशः स्वभावः कल्पनीयः ? इति भावः ।। ८॥ ___विश्वहेतुतया धर्मिग्राहकमानेन तादृशस्वभाव एव भगवान् साध्यते, इत्यभिप्रायादाहकर्मादेस्तत्स्वभावत्वेन किश्चिद् बाध्यते विभोः।विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम्॥९॥
कर्मादेस्तत्स्वभावत्वे- ईश्वरमनपेक्ष्य जगजननस्वभावत्वे, न किश्चिद् विभोः- परमेश्वरस्य, बाध्यते। विभोस्तु तत्स्वभावत्वे-स्वातन्त्र्येण, अन्यहेतुसापेक्षतया वा जगज्जननवभावत्वे कृतकृत्यत्वबाधनम् , वीतरागत्वव्याहतेः, कारणतया प्रकृतित्वप्रसङ्गाच । अथ परिणामित्वाभावाद् न प्रकृतित्वम् , प्रयोजनाभावेन जन्येच्छाया अभावेऽपि नित्येच्छासत्त्वाद् न वैराग्यव्याहतिः, जन्येच्छाया एव रागपदार्थत्वात् । ऐश्चर्यमपि न जन्यम् , किन्तु तत्तत्फलावच्छिन्नेच्छैव । सर्गादौ रजःप्रभृत्युद्धेकोऽपि तत्र तत्कार्यकारितयैव गीयत इति न कूटस्थत्वहानिरिति चेत् ।
जल्पता गिरिशसाधने गिरं न्यायदर्शननिवेशपेशलाम् । सांख्य ! संप्रति निजं कुलं त्वया हन्त ! हन्त ! सकलं कलङ्कितम् ॥ १॥ .....
JainEducation
For Private
Personel Use Only
www.jainelibrary.org