SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ CHODHROOMATOT गीयते । प्रयोजनज्ञानं हि प्रवर्तनाथमुपयुज्यते, प्रवृत्तिश्च यदि स्वत एवोपपन्ना, तदेश्वरसिद्धिव्यसनं गृहलब्ध एव धने विदेशगमनप्रायम् ॥ ६॥ अभिप्रायान्तरमाशङ्कय निराकुरुतेफलं ददाति चेत्सर्व तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता ॥७॥ सर्व तत्-- चित्रं कर्म, इह- जगति, तेन- ईश्वरेण, प्रचोदितम्- अधिष्ठितं सत् , फल- सुख-दुःखादिकम् , ददातिउपधत्ते, अचेतनस्य चेतनाधिष्ठितस्यैव कार्यजनकत्वादिति चेत् । अफले- स्वतश्चित्रफलदानासमर्थे कर्मण्यभ्युपगम्यमाने, पूर्वदोपः- पूर्वोक्तः स्वर्ग-नरकादिफलाऽनियमदोषः, स्यात् । सफले- स्वतश्चित्रफलदानसमर्थे कर्मणि त्वभ्युपगम्यमाने, भक्तिमात्रता- ईश्वरे भक्तिमात्र स्यात् , हरीतकीरेकन्यायात । अचेतनं चेतनाधिष्ठितमेव जनकमिति नियमस्त्वतादृशस्यापि वनबीजस्याऽरजननत्वदर्शनादसिद्धः। तस्यापि पक्षतायाम् , अन्यत्रापि व्यभिचारिणः पक्षतायां निवेशेऽनैकान्तिकोच्छेदप्रसङ्गादिति भावः ।।७।। आदिसर्गे तस्यैव स्वातन्त्र्यमित्याशङ्कय निराकुरुतेआदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते। प्रतिज्ञातविरोधित्वात्स्वभावोऽप्यप्रमाणकः ॥८॥ For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy