________________
शास्त्रवातो
समुच्चयः । ।। ९५ ।।
अन्ये तु - जैनाः, अत्र - ईश्वरविचारे, अभिदधति- परीक्षन्ते । किम् ?, इत्याह- वीतरागस्य- वैराग्यवतः, ईश्वरस्य- पातञ्जलैरभ्युपगतस्य, इत्थं- प्रेरकत्वे, प्रयोजनाभावात्, भावतः - इच्छातः कर्तुत्वं कथं युज्यते १ । यो हि परमेरको दृष्टः स स्वप्रयोजनमिच्छन्निष्टः, ततोऽत्र व्यापिकायाः फळेच्छाया अभावाद् व्याप्यस्य परप्रेरकत्वस्याभावः ॥ ४ ॥
एतदेव स्पष्टयन्नाह -
नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून्केन हेतुना ? ॥ ५ ॥
सः - ईश्वरः, कांश्चिज्जतून नरकादिफले- ब्रह्महत्यादौ, कर्मणि, कांश्चित् स्वर्गादिसाधने- यम-नियमादौ वा, आशुकेन हेतुना प्रेरयति ? | क्रीडादिप्रयोजनाभ्युपगमे राग-द्वेषाभ्यां वैराग्यव्याहतिः, प्रयोजनानभ्युपगमे च तन्मूलकप्रेरणाभावात् सिद्धान्त व्याघातः, इत्युभयतः पाशा रज्जुरिति भावः ॥ ५ ॥
शीघ्रम्,
पराभिप्रायमाशङ्कय निराकरोति
स्वयमेव प्रवर्तन्ते सत्त्वाश्चेच्चित्रकर्माणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ? ॥६॥
सखाः, चित्रकर्मणि - ब्रह्महत्या - यम-नियमादौ स्वयमेव तमः सच्चोद्रेकेण तथाविधबुद्ध्यंशव्यापारावेशेनैव, प्रवर्तन्ते - कर्तुत्वेनाऽभिमन्यन्ते । प्रयोजनज्ञानार्थं परमीश्वरापेक्षेति चेत् । इह कर्मणि, निरर्थकमीशस्य कर्तृत्वं कथं
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तबकः ।
॥ ३ ॥
॥ ९५ ॥
www.jainelibrary.org