SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ धादिभया प्रार्थनाय यागादि इत्यादौ वक्तृसंकल्पस्यैव बोधात , आज्ञा-ध्येपणा-ऽनुज्ञा-संप्रश्न-प्रार्थना-ऽऽशंसालिडीच्छाशक्तत्वस्यैव कल्पनाच- उल्लने क्रोधादिभयजनिकेच्छाऽऽज्ञा, अध्यषणीये प्रयोक्तुरनुग्रहयोतिकाऽध्येषणा, निषेधाभावव्यञ्जिकाऽनुज्ञा, प्रयोजनादिजिज्ञासा प्रश्नः, प्राप्तीच्छा प्रार्थना, शुभेच्छाऽऽशंसा निषेधानुपपत्तेश्चेष्टसाधनत्वनिषेधस्य बाधात् ; बलवदनिष्टाननुबन्धित्वस्यापि तदर्थत्वे 'श्येनेन' इत्यादावलसस्य यागादिदुःखेऽपि बलवद्वेषेण 'यजेत' इत्यादौ वाधात् । तत आप्ताभिप्रायस्यैव विध्यर्थत्वात् तादृशाभिप्रायवदीश्वरसिद्धिः। श्रुतिः- ईश्वरविषयो वेदः, ततः; 'यज्ञो वै विष्णुः' इत्यादेविध्येकवाच्यतया "यद् न दुःखेन संभिन्नम्" इत्यादिवत् तस्य स्वार्थ एव प्रामाण्यात् । वाक्यात्-वैदिकप्रशंसा-निन्दावाक्यात् , तस्य तदर्थज्ञानपूर्वकत्वात् । संख्या "स्यामभूवम् , भविष्यामि" इत्यायुक्ता । ततोऽपि स्वतन्त्रोच्चारपितृनिष्ठाया एव तस्या अभिधानादिति रहस्यम् । श्रुत्वैवं सकृदेनमीश्वरपरं सांख्या-ऽऽक्षपादागमं लोको विस्मयमातनोति, न गिरो यावत् स्मरेदाईतीः । किं तावद्धदरीफलेऽपि न मुहुर्माधुर्यमुनीयते यावत्पीनरसा रसाद् रसनया द्राक्षा न साक्षात्कृता? ॥१॥३॥ ॥ इत्थमभिहितेश्वरकर्तृत्वपूर्वपक्षवार्ता । अथ समाधानवार्तामाह - अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः। इत्थं प्रयोजनाभावात् कर्तृत्वं युज्यते कथम् ॥४॥ १ अवशिष्टं पादत्रयं तु- "न च प्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्" इति । टाकलाप SPIDEO Jain Education Inter For Private & Personel Use Only EMjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy