________________
शास्त्रवार्तासमुच्चयः। ॥९४॥
Porno
अथवा, कार्य- तात्पर्य वेदे, यस्य तत्, स एवेश्वरः । आयोजन सद्याख्या, वेदाः केनचिद् व्याख्याताः, महाजनपरि- सटीकः । गृहीतवाक्यत्वात् । अव्याख्यातत्वे तदर्थानवगमेऽननुष्ठानापत्तेः, एकदेशदर्शिनोऽस्मदादेश्च व्याख्यायामविश्वासः, इति तयाख्य-स्तबकः। येश्वरसिद्धिः। धृतिर्धारणं मेधाख्यज्ञानम् , आदिपदार्थोऽनुष्ठानम् । ततोऽपि, वेदा वेदविषयकजन्यधारणान्यधारणाविषयाः,
॥३॥ धृतिवाक्यत्वात् , लौकिकवाक्यवत् ; यागादिकं यागादिविषयकजन्यज्ञानान्यज्ञानवदनुष्ठितम् , अनुष्ठितत्वात् , गमनवत् , इति प्रयोगः । पदं प्रणवेश्वरादिपदम् , तत्सार्थक्यात् , स्वतन्त्रोच्चारपितृशक्तश्रुत्यादिस्थाऽहंपदाद् वा । न चेश्वरादिपदस्य खपरता,
"सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः।
. अनन्तशक्तिश्च विभोविधिज्ञाः पेंडन्तरङ्गाणि महेश्वरस्य ॥१॥" इत्यादिवाक्यशेषेण 'ईश्वरमुपासीत' इत्यादिविधिस्थेश्वरादिपदशक्तिग्रहात् , यथा यवादिपदस्य "वसन्ते सर्वशस्यानां" इत्यादिवाक्यशेषाच्छक्तिग्रहेण न कमवादिपरता।
प्रत्ययो विधिप्रत्ययः, ततोऽपि, आप्ताभिप्रायस्यैव विध्यर्थत्वात् । न हीष्टसाधनत्वमेव तथा, 'अग्निकामो दारूणि मनीयात्' इत्युक्ती, 'कुतः ?' इति प्रश्ने 'यतो दारुमथनमग्निसाधनम्' इत्युत्तरेऽग्निसाधनत्वेन विध्यर्थववानुमानानुपपत्तेः, अभेदे। हेतुत्वेनोपन्यासानौचित्यात् , 'तरति मृत्युम्' इत्यादौ विधिवाक्यानुमानानुपपत्तेश्चेष्टसाधनतायाः प्रागेव बोधात् : 'कुर्याः, कुर्याम्'
, "पिताऽहमस्य जगतो माता धाता पितामहः” इत्यादौ । २ 'षडाहुरङ्गानि' इत्यन्यत्र ग्रन्थे पाठः। ३ " जायते पत्रशातनम् ; मोदमानाच | तिष्ठन्ति, यवाः कणशशालिनः" इति शेषं पादत्रयम् । आदिना 'बराहं गावोऽनुधावन्ति' इत्यादि ।
॥ ९४॥
For Private Personal Use Only
www.jainelibrary.org