________________
नैव पतनाभाववत्वात । तथाच श्रुतिः "एतस्य चाक्षरस्य प्रशासनो गार्गी, धावापृथिवी विधृते तिष्ठतः" इति । प्रशासनंदण्डभूतः प्रयत्नः, आवेशस्तच्छरीरावच्छिन्नप्रयत्नवत्वमेव, सर्वावेशनिवन्धन एव च सर्वतादात्म्यव्यवहार इति । "आत्मैवेदं सर्वम् , ब्रह्मवेदं सर्वम्" इत्यादिकम् । . आदिना नाशादपि, ब्रह्माण्डनाशः प्रयत्नजन्यः, नाशत्वात , पाटघमानपटनाशवदिति ।
पदादपि, पद्यते गम्यतेऽनेनेति पदं व्यवहारः, ततः, घटादिव्यवहारः, स्वतन्त्रपुरुषप्रयोज्यः, व्यवहारत्वात् , आधुनिककल्पितलिप्यादिव्यवहारवत् , इत्यनुमानात् । न च पूर्वपूर्वकुलालादिनैवाऽन्यथासिद्धिः, प्रलयेन तद्विच्छेदात् ।
प्रत्ययतः-प्रमायाः, वेदजन्यममा वक्तृयथार्थवाक्यार्थज्ञानजन्या, शाब्दममात्वात् , आधुनिकवाक्यजशाब्दप्रमावत् ।
श्रुतेरपि, वेदोऽसंसारिपुरुषप्रणीतः, वेदत्वात् , इति व्यतिरेकिणः । न च परमते साध्याऽप्रसिद्धिः, 'आत्मत्वमसंसारिवृत्ति, जातिस्वात' इत्यनुनानेन पूर्व साध्यसाधनात् ।
वाक्यादपि, वेदः पौरुषेयः, वाक्यत्वात् , भारतवत् , इत्यन्वयिनः ।
संख्याविशेष:-यणुकपरिमाणजनिका संख्या, ततोऽपि; इयं संख्या, अपेक्षाबुद्धिजन्या, एकत्वान्यसंख्यात्वात , इत्यस्मदाद्यपेक्षाबड्यजम्यत्वादतिरिक्तापेक्षावुद्धिसिद्धों तदाश्रयतयेश्वरसिद्धेः । न चासिद्धिः, घणुकपरिमाणं संख्याजन्यम. जन्यपरिमाणखानघटादिपरिमाणवत् । न वा दृष्टान्तासिद्धिः, द्विकपालादिपरिमाणात् त्रिकपालादिघटपरिमाणोत्कर्षादिति दिग।
१ वजनकप्रयतसमानकालीमचरमकारणनाशप्रतियोगीत्यर्थः ।
Jain Educat
i
onal
For Private & Personal Use Only
www.jainelibrary.org