________________
Jain Education Inter
रपि पक्षान्तर्गतत्वात्' इत्याहुः ।
अन्ये तु - 'द्रव्याणि ज्ञानेच्छा- कृतिमन्ति, कार्यत्वात्, कपालवत् । साध्यता विशेष्यतया, हेतुता च समवायेन; पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वाद् नांशतः सिद्धसाधनम् । न च वहिरिन्द्रियाऽग्राह्यत्वमुपाधिः, अनुकूलतर्केण देतोयतानिर्णये तदनवकाशात् । न च त्रितयस्य मिलितस्य साध्यत्वेऽप्रयोजकत्वम्, मिलितत्वेनाहेतुत्वात्, प्रत्येकं साध्यत्वे ज्ञानेच्छावच्चेन साधने सर्गान्तरीयज्ञानादिना सिद्धसाधनमिति वाच्यम्; मिलितत्वेन साध्यत्वेऽपि कार्यकारणभावत्रयस्य प्रयोजकत्वात् । 'सर्गाद्यकालीनं द्रव्यं ज्ञानवत्, कार्यत्वात् पक्षतावच्छेदककालावच्छेदेन साध्यसिद्धेः' इत्यप्याहुः ।
'क्षित्यादिकं सकर्तृकम्, कार्यत्वात्' इत्येवाऽनुमानम्, प्रकृतिविचारानुकूलविवादविषयत्वेन च क्षित्यादीनामनुगमः, सकर्तृकत्वं च प्रतिनियतकर्तृनिरूपितः संबन्धो व्यवहारसाक्षिकः घटादिदृष्टान्तदृष्टः, नित्यवर्गव्यावृत्त इति नानुपपत्तिः ' इत्यपि केचित् ।
आयोजनादपि,
सर्गा कालीनद्वयणुककर्म प्रयत्नजन्यम्, कर्मत्वात्, अस्मदादिशरीरकर्मवत् इत्यनुमानात् । पर
१ ख. ग. घ. च. 'दिदृष्टः'। २ द्व्यणुकारम्भकसंयोगजनकं सर्गाद्यकालीनपरमाणुकमात्रमायोजनम्, आयुज्यते संयुज्यतेऽन्योन्यं द्रव्यमनेनेति व्युत्पत्तेः इदं च 'साध्यो विश्वविदव्ययः' इति कुसुमाञ्जलिकारिकान्त्यपादेन, तत्कारिकाव्याख्यानप्रारम्भेऽत्र ग्रन्थे स्थितेन 'ईश्वरसिद्धिः' इत्यनेन वाऽन्वीयते; एवमुत्तरत्रापि 'तेरपि नाशादपि, पदादपि, प्रत्ययतः' इत्यादिषु सर्वत्र विज्ञेयम् । ३ अचेतनत्वात् परमाणूनां चेतनोत्पादितकर्मत्वेनैव वास्यादिवत् प्रवृत्तेरभ्युपगमनीयत्वात् तादृशचेतनावत एव चेश्वरवद वाध्यत्वेन स्वीकारादिति पूर्वपक्षाभिप्रायः ।
For Private & Personal Use Only
www.jainelibrary.org