SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- सटीकः । स्तबकः। ॥३॥ ॥ ९२ ।। Tekarela नत्वं तदर्थः; नातो घणुकादेरुपादानगोचरताशकृत्यप्रसिद्ध्या पक्षवाभावप्रसङ्गः । तत्र शब्द-फूत्कारादरपक्षत्वे संदिग्धसाध्य- कत्वेन तत्राऽनैकान्तिकत्वसंशयः स्यात् , अतः प्रतियोगिकोटौ गोचरान्तम् शब्दादेमंदङ्गादिगोचरताशकृतिजन्यत्वेऽपि न स्वोपादानगोचरतादृशकृतिजन्यत्वमिति न दोषः । मन्त्रविशेषपाठपूर्वकस्पर्शजन्यकाश्यादिगमनस्य स्पर्शजन्याऽदृष्टद्वारा स्वोपादानकाश्यगोचरस्पर्शजनकजन्यकृतिजन्यस्याऽपक्षत्वे तत्र संदिग्धानकान्तिकत्वं स्यात् , एवं स्वोपादानशरीरगोचरोवंचरणादितपाकृतिजन्यकालशरीरीयगौररूपादौ तत् स्यात् । अतस्तरकोटौ 'स्वजनक'-इत्यादि ; काश्यचालनादिकं तु स्वजनकाऽदृष्टजनकजन्यकृतिजन्यमेवेत्यदोषः । ध्वंस-गगनैकत्वादिवारणाय 'समवेतम्' इति, जन्यमिति च । शब्द-फूत्कारादौ सिद्धसाधनवारणाय साध्ये गोचरान्तम् । उक्तकाश्यचालनादौ तद्वारणाय 'स्वजनक-' इत्यादि । न च साध्ये पक्षे च गोचरान्तद्वयं माऽस्तु, मृदङ्गादिगोचरकृतिजन्यशब्दादिस्तु पक्षबहिर्भूत एव दृष्टान्तोऽस्त्विति वाच्यम् ; अदृष्टेतरव्यापारद्वाराऽस्मदादिकृतिजन्यत्वसिद्ध्याऽर्थान्तरप्रसङ्गवारणाय साध्ये तन्निवेशावश्यकत्वे, शब्दादावनैकान्तिकत्वसंशयवारणाय पक्षेऽपि तदावश्यकत्वात् ; तादृशशब्दादिकर्तृतयापि भगवत्सिद्धये पक्षे तन्निवेशेऽशतः सिद्धसाधनवारणाय साध्ये तन्निवेशावश्यकत्वाच । एतेन 'खजनकाऽदृष्टजनकान्यत्वमप्युभयत्र माऽस्तु' इत्यपास्तम् , तादृशकांश्यचालनादिकर्तृतयाऽपि भगवत्सिद्ध्यर्थं पक्षे तदुपादाने साध्येऽप्यावश्यकत्वात् । यदि च 'स्वजनकादृष्टजनककृतेर्न स्वजनकत्वम् , मानाभावात् ' इति विभाव्यते, तदा पक्षे तद् नोपादेयम् । साध्ये तु देयमेव, अन्यथा सर्गान्तरीयज्ञानादीनां व्यणुकाद्युपादानागोचरत्वेन घणुकादौ सिद्धसाधनाभावेऽप्युक्तकांश्यचालनादावदृष्टजनककृतिजन्यत्वसिद्ध्यार्थान्तरापत्तेर्वस्तुगत्या स्वोपादानगोचरकृतिजन्यं यत्, तत्त्वावच्छिन्नभेदकूटबत्त्वेन कांश्यचालनादे काहाना EDY|| ९२॥ Jain Educaton International For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy