SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Jain Education International क्षित्यादावसिद्धिरिति वाच्यम्, कालदृश्यत्यन्ताभावप्रतियोगित्वे सति प्रागभावप्रतियोगित्वे सति, ध्वंसप्रतियोगित्वे सति वा सत्त्वस्य हेतुत्वात् | पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वाच्च न कार्यस्य घटादेः सकर्तृत्व सिद्ध्याऽंशतः सिद्धसाधनम् ; न वा पक्षतावच्छेदकस्य हेतुत्वं दोषः, 'कार्यत्वं साध्यसमानाधिकरणम्' इति सहचारग्रहेऽपि 'कार्य सकतकम्' इति बुद्धेरभावाच्च । ननु तथापि सकर्तृकत्वं यदि कर्तृसाहित्यमात्रम्, तदाऽस्मदादिना सिद्धसाधनम् ; यदि च कर्तुजन्यत्वम्, तदा बाघोsपि, ज्ञानादेरेव जनकतया कर्तुरजनकत्वादिति चेत् । न, प्रत्यक्षजन्यत्वेच्छाजन्यत्वादिना साध्यतायामदोषात् । अदृष्टाद्वारा जन्यत्वस्य, विशेष्यतासंबन्धावच्छिन्नकारणताप्रतियोगिक समवायावच्छिन्नजन्यत्वस्य वा साध्यत्वाच्च नाऽदृष्टजनकास्मदादिज्ञानजन्यत्वेन सिद्धसाधनम् अर्थान्तरं वा । अथाss शरीरजन्यत्वमुपाधिः, अङ्कुरादौ साध्यव्यापकतासंदेहे संदिग्धोपाधितासाम्राज्यात्; तदाहितव्यभिचारसंशयेनानुमानप्रतिरोधात् लाघवाद् व्यभिचारज्ञानत्वेनैव व्याप्तिधीविरोधित्वात्, पक्ष- तत्समयोरपि व्यभिचारसंशयस्य दोषत्वादिति चेत् | 'न, प्रकृते ज्ञानत्वादि कार्यत्वाभ्यां हेतुहेतुमद्भावनिश्चयात्, लाघवतर्कावतारे तदुपाधिसंशयस्याऽविरोधित्वात्, अनुकूलतर्कानवतार एव संदिग्धोपाधेर्व्यभिचारसंशयाधायकत्वात्; अन्यथा पक्षेतरत्वोपाधिशङ्कया प्रसिद्धानुमानस्याऽप्युच्छेदप्रसङ्गात्' इत्येके । परे तु स्वोपादानगोचराऽस्वजनकाऽदृष्टाऽजनिका या कृतिस्तदजन्यं समत्रेतं जन्यं स्वोपादानगोचरस्वजनकादृष्टजनकान्यापरोक्षज्ञान - चिकीर्षाजन्यम्, कार्यत्वात् । घटादावंशतः सिद्धसाधनवारणाय तदजन्यान्तम्, ताराकृतिजन्यं यत् यत्स्वं तद्भि For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy