SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। यतः सत्यसंकल्पता भवति, यथेवरसंकल्पमेव भूतभावादिति । धर्मश्च प्रयत्न-संस्काररूपोऽधर्माभावादप्रतिघः । एतच्चतुष्टयं सटीकः । सहसिद्धम्- अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम् । अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्माऽनाश्रयत्वादिति बोध्यम् ॥२॥स्तवकः। . तस्य कर्तृत्वे युक्तिमाह ॥३॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा॥३॥ अयं संसारी जन्तुः, आत्मनः सुख-दुःखयोर्जायमानयोः, अनीशः- अकर्ता, यतोऽज्ञः-हिता-ऽहितप्रवृत्ति निवृत्त्युपायानभिज्ञः, अतः स्वर्ग वा, श्वभ्रमेव वा- नरकमेव वा, ईश्वरप्रेरितो गच्छेत् , अज्ञानां प्रवृत्तौ परप्रेरणाया हेतुत्वावधारणात् , पवादिमवृत्ती तथादर्शनात् , अचेतनस्यापि चेतनाधिष्ठानेनैव व्यापाराच । अत एव " मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । तपाम्यहमहं वर्ष निगृहाम्युत्सृजामि च ॥१॥" इत्यागमेन सर्वाधिष्ठानत्वं भगवतः श्रूयते, इति पातञ्जलाः। नैयायिकास्तु वदन्ति " कार्या-ऽऽयोजन-धृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच साध्यो विश्वविदव्ययः॥१॥” इति । अस्याऽर्थः- कार्यादीश्वरसिद्धिः, कार्य सर्तकम, कार्यत्वात , इत्यनुमानात् । न च कार्यत्वस्य कृतिसाध्यत्वलक्षणस्य 1 कुसुमाञ्जली पञ्चमे स्तबके कारिका ।। 10||९१॥ SIDIOS Jain Education Intro For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy