________________
Jain Education Interle
तीयेन वा लब्धवृत्तिनाभिभवाद् भविष्यद्वृत्तिकत्वेनावस्थानं विच्छिन्नावस्था, अभिव्यक्तस्य प्राप्तसहकारिसंपत्तेरप्रतिबन्धेन लब्धवृत्तिकतया स्वकार्यकरत्वमुदारावस्था । तत्राद्यमवस्थाद्वयं प्रतिप्रसवाख्येन निर्बीजसमाधिना हीयते, अन्त्यं तु शुद्धसत्वमयेन भगवद्ध्यानेनेति । अविद्याऽभावात् तेन्नाशजन्यं कथं तत्वज्ञानं तेस्य ?, इति चेत् । अत एव नित्यं तत्, नित्यज्ञानवादेव चायं कपिलप्रभृतिमहर्षीणामपि गुरुः ॥ १ ॥
तदिदमाह
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ २ ॥
यस्य जगत्पतेर्ज्ञानम्, अप्रतिघम् - नित्यत्वेन सर्वविषयत्वात् कचिदप्यप्रतिहतम् । वैराग्यं च माध्यस्थ्यं च, रागाभावादप्रतिघम् । चः समुच्चये । एवांऽवधारणे । ऐश्वर्य पारतन्त्र्याभावादप्रतिघम् तच्चाष्टविधम्- अणिमा, लघिमा, महिमा, प्राप्तिः, प्राकाम्यम्, वशित्वम् ईशित्वम्, यत्रकामावसायित्वं चेति । यतो महानणुर्भवति सर्वभूतानामप्यदृश्यः, सोणिया । यतो लघुर्भवति सूर्यरश्मीनप्यालय सूर्यलोकादिगमनसमर्थः, स लघिमा । यतोऽल्पोऽपि नाग-नगादिमानो भवति, स महिमा । यतो भूमिष्टस्याप्यङ्गुल्यग्रे गगनस्थादिवस्तुमाप्तिः, सा प्राप्तिः । प्राकाम्यमिच्छानभिघातः, यत उदक इत्र भूमावुन्मज्जति निमज्जति । शिवम् यतो भूत-भौतिकेषु स्वातन्त्र्यम् । ईशित्वम् - यतस्तेषु प्रभव-स्थिति-व्ययानामीष्टे । यत्रकामावसायित्वम्१ तच्छदेनाsविद्या परामृश्यते । २ ईश्वरत्वेनाभिमतस्य पुरुषस्य । ३ नागो हस्ती, नगः पर्वतः । ४ " स्मृत्यर्थदयेशः " ॥ २ । २ । ११ ॥ इति सूत्रेण कर्मसंज्ञाया विकल्पेन पक्षे षष्ठी ।
1
For Private & Personal Use Only
www.jainelibrary.org