________________
BASATTA
शास्त्रवार्ता
सटीकः।
स्तब०३।
"पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः।" इति । ये तु विकारानेव भूते-न्द्रिया-अहङ्कार-बुद्धीः पुरुपबुद्ध्योपासते, तेषां वैकारिको बन्धः, यान् प्रतीदमुच्यते
"दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्ण सहस्रं त्वाभिमानिकाः ॥१॥
बौद्धाः शतसहस्राणि तिष्ठन्ति विगतज्वराः।" इति । इष्टापूर्ते दाक्षिणो बन्धः, पुरुषतत्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना वध्यत इति । इयं च त्रिविधापि बन्धकोटिरीश्वरस्य मुक्ति प्राप्यापि भवे पुनरेष्यतां प्रकृतिलीनत्वज्ञानानां योगिनामिव नोत्तरा, नवा पूर्वा, संसारिमुक्तात्मनामिव, इति निर्बाधमनादिसिद्धत्वम् । तथा चाह पतञ्जलि:- "क्लेश-कर्मविपाका-ऽऽशयरपरामृष्टः पुरुषविशेष ईश्वरः" इति । क्लेशा:अविद्या-ऽस्मिता-राग-द्वेषा-ऽभिनिवेशाः, कर्माणि शुभा-ऽशुभानि, तद्विपाको जात्यायु गाः; आशयाः- नानाविधास्तदनुगुणा: संस्काराः, तैरपरामृष्टोऽसंस्पृष्टः, सर्वज्ञतया भेदाऽग्रहनिमित्तकाऽविद्याऽभावात् , तस्या एव च भवहेतुसर्वक्लेशमूलत्वात् । तथाच मूत्रम्- "अविद्या क्षेत्रमुत्तरेषां प्रसुप्त-तनु-विच्छिन्नो-दाराणाम्" इति । अनभिव्यक्तरूपेणावस्थानं सुप्तावस्था, अभिव्यक्तस्यापि सहकार्यभावात् कार्याऽजननं तन्ववस्था, अभिव्यक्तस्य जनितकार्यस्यापि केनचिद् बलवता सजातीयेन विजा
. बौद्धाः-बुद्धिशब्दाच्छैषिकोऽण् । २ योगसूत्रे १, २५। ३ योगसूत्रे २, ४ ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org