SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ अथ तृतीयः स्तबकः। सर्वः शास्त्रपरिश्रमः शमवतामाकालमेकोऽपि यत्साक्षात्कारकृते धृते हृदि तमो लीयेत यस्मिन्मनाक् । यस्यैश्वर्यमपङ्किलं च जगदुत्पाद-स्थिति-ध्वंसनैस्तं देवं निरवग्रहग्रहमहाऽऽनन्दाय वन्दामहे ॥ १॥ सामग्यामीश्वरोऽपि निविशत इति वार्तान्तरमाहईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते। अचिन्त्यचिच्छक्तियुक्तोऽनादिसिद्धश्च सूरिभिः॥१॥ इह- सामग्यम् , कैश्चित् मूरिभिः- पातञ्जलाचार्यैः, प्रेरकत्वेन- परप्रवृत्तिजनकत्वेन, ईश्वरः कर्तेष्यते । कीदृशः ?, इत्याह- अचिन्त्या-इन्द्रियादिप्रणालिकां विनाऽपि यथावत्सर्वविषयावच्छिन्ना या चिच्छक्तिश्चेतना, तया युक्तस्तदाश्रयः, तथा, अनादिसिद्धश्च, कदापि बन्धाभावात् । त्रिविधो हि तैर्बन्ध उच्यते, प्राकृतिक-वैकारिक-दाक्षिणभेदात् । तत्र प्रकृतावात्मता| ज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, यान् प्रतीदमुच्यते Romamaeeeeeee Jain Education in For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy