________________
इह- जगति, न च-नैव, एकैकत एव नियत्यादेः, कचित्-कापि, किञ्चिन्- किमपि घटादि, ईक्ष्यते-जायमानं प्रतीयते । तस्माद् हेतोः, सर्वस्य घटादेः कार्यस्य, सामग्री- कथश्चित्तव्यतिरिक्ताऽव्यतिरिक्तहेतुसंहतिः, जनिका- कार्योपधाKoयिका, मता- इष्टा । पूर्व कारणसमुदाये कार्योपधायकत्वनियमः साधितः, इदानीं तु कार्ये कारणसमुदायोपाधेयत्वनियम इति ।
तु तत्वम् । ननु कालायेकान्तपतिक्षेपेऽप्यदृष्टैकान्ताप्रतिक्षेपाद् न साध्यसिद्धिरिति चेत् । न, अदृष्ट्रकान्तवादेऽनिर्मोक्षापत्तेः । मोक्षस्य कर्माजन्यत्वात् , आत्मस्वरूपावस्थानरूपो मोक्षः कर्मक्षयेणाभिव्यज्यत एव, न तु जन्यत एवेति चेत् । सत्यम् , कर्मक्षयस्यैव कर्म विनाऽनुत्पत्तेः । स्वप्रयोज्यज्ञानयोगसंबन्धेन पूर्वकमैव तत्र हेतुरिति चेत् । न, साक्षादेव तस्य हेतुत्वौचित्यात् । अन्यथा कर्मत्वस्यैव तेन संबन्धन हेतुत्वप्रसङ्गात् । किञ्च, दृष्टकारणान्यनतिपत्याऽदृष्टस्य कार्यजनकत्वात् तेषामपि तैथात्वमनिवारितम् । तद्विपाकेन तदुपक्षये तैस्तद्विपाकोपक्षयस्यापि वक्तुं शक्यत्वात् , बलवत्त्वस्याऽप्युभयत्र "अन्भंतर-बज्झाणं" इत्यादिना महता | प्रबन्धेनाऽन्यत्राऽविशेषेणैव साधितत्वादिति दिग् ॥ ८॥
'अत्र कालादयश्चत्वारोऽपि स्वातन्त्र्येण हेतवः' इत्येके; 'काला-दृष्टे एव तेथा, नियति-स्वभावयोस्त्वदृष्टधर्मत्वेन न तथात्वम्' इत्यन्ये इति मतभेदमाह
STARJIJ
। स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते।धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः॥८॥
, अनतिपस्य- अनतिवृत्य, अनुल्लङ्येत्यर्थः। २ एकारणानाम् । ३ हेतुत्वम् । ४ अभ्यन्तर-बाहानाम् । ५ तथा- स्वातन्त्र्येण हेतू ।
Jan Education Internal
For Private Personal Use Only
www.jainelibrary.org