________________
DIRECIPE HAGATHAPAHASAN
शास्त्रवातो
सटीकः
॥८८
HAAHASHASAASमरामसारपसार
दोषान्तरमाहयतश्च काले तुल्येपि सर्वत्रैव नतत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः॥७॥
यतश्च, काले- समयादौ, तुल्येऽपि- अविशिष्टेऽपि सति, तत्फलं- तत्कालजन्य घटादि, सर्वत्रैव न, तन्त्वादौ तदनुपपत्तेः । अतस्तत्फलं, विचक्षणैः- यौक्तिकैः, हेत्वन्तरापेक्षं- कालातिरिक्तदेशादिहेतुजन्यं, विज्ञेयम् । न च मृदोऽन्यत्र घटस्याऽनापत्तिरेव, काले हेतुसत्त्वेऽपि देश कार्यानापत्तेरिति वाच्यम् , मृदजन्यत्वेन मृदवृत्तित्वस्याऽऽपाद्यत्वात् । मृदजन्यत्वं च जन्यतासंबन्धेन मृद्भिन्नत्वम् । अतो न तर्कमूलव्याप्त्यसिद्धिः । न च तत्स्वभावत्वादेव तस्य काचित्कत्वम् , फलतस्तत्स्वभावत्वस्यैवाऽऽपाद्यत्वादिति दिग् ॥ ७८॥
उपसंहारमाह-.. अतः कालादयः सर्वे समुदायेन कारणम् ।गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः॥७९॥
___ अतः- उक्तहेतोः, कालादयः सर्वे समुदायेन स्वस्खमत्यासत्त्या, गर्भादेः कार्यजातस्य, न्यायवादिभिः, कारणम्-फलोपधायकाः, विज्ञेयाः ॥ ७९ ॥
इदमेव स्फुटतरशब्देनाहन चैकैकत एवेह कचित्किञ्चिदपीक्ष्यते। तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता।Ineen
Jan Education Intemanona
For Private Personal use only
www.jainelibrary.org