________________
FOLORS
BOXICIDIODICHOD
अथापि हेतुमलयादसौ भवेत् , प्रतिज्ञया केवलयाऽस्य किं भवेत् ? ॥१॥” इति । न च ज्ञापकहेतूपन्यासेऽपि कारकहेतुप्रतिक्षेपवादिनो न स्वपक्षबाधेति वाच्यम् : ज्ञानजनकत्वेनैव ज्ञापकत्वात् , अनियतावधित्वे कादाचित्कत्वव्याघातात् , नियतावधिसिद्धौ तत्त्वस्यैव हेतुत्वात्मकत्वाच; अन्यथा 'गर्दभाद् धूमः' इत्यपि प्रमीयतेति । अधिकमग्रे ॥ ७६ ॥
__ अत एव कालवादोऽपि निरस्तः ?, इत्याहकालोऽपि समयादिर्यत्केवलः सोऽपि कारणम्। तत एव ह्यसंभूतेः कस्यचिन्नोपपद्यते॥७७॥
कालोऽपि समयादिः- क्लृप्तद्रव्यपर्यायरूपः, अतिरिक्तकालपर्यायो वा; यद्- यस्माद्धेतोः, ततः, तत एव-समयादेः, हि-- निश्चितम् , कस्यचित्- कस्यापि, असंभूते:- अनुत्पत्तेः, केवल:- अन्यानपेक्षः, सोऽपि-- कालोपि, कारणं नोपपद्यते, विवक्षितसमये कार्यान्तरस्याऽप्युत्पत्तिप्रसङ्गात् । न च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणहेतुत्वाभिधानाद् न दोष इत्युक्तमेवेति वाच्यम् , अग्रभाविनस्तत्क्षणवृत्तित्वस्यैव फलत आपाद्यत्वात् , तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणेन हेतुत्वम् , तदुत्तरक्षणविशिष्टे कार्ये तत्क्षणत्वेन वा ?, इति विनिगमनाविरहाच्च ॥ ७७ ॥
SatsTo
koicCHOCKEE
१ असौ- प्रतिज्ञा, हेतुप्रलयात्- हेतुरहितैवेत्यर्थः, भवेदिति पूर्वपक्षः । २ कादाचित्कत्वस्यैव । ३ ख. ग. घ. च. 'तोस्तत ए'।
FESMS
For Private & Personal Use Only
Jnin Education
www.jainelibrary.org
tona