SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - 11 2011 | पूर्वोत्तरकार्यजनकत्वे पूर्वोत्तरकालयोरुत्तरपूर्व कार्यप्रसङ्गेन क्रमस्यैव व्याहतेः, एकस्यैव स्वभावस्य नानाजातिनियामकत्वे सर्वस्य सर्वजातीयत्वस्य, एकजातीयत्वस्य वा प्रसङ्गात् ।। ७५ ।। पराभिप्रायमाशङ्कय परिहरति तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन्ननु । मुक्तः स्वभाववादः स्यात्कालवादपरिग्रहात् ॥७६॥ तत्तत्कालादिसापेक्षः- तत्तत्क्षणादिसहकृतः सः - स्वभावः, विश्वहेतुः, कालक्रमेण कार्यक्रमोपपत्तेरिति चेत् । 'ननु' इत्याक्षेपे, स्वभाववादो मुक्तः स्यात्, कालवादपरिग्रहात्- कालहेतुत्वाश्रयणात् । ननु क्षणिकस्वभावे नाऽयं दोष इत्युक्तमेवेति चेत् । उक्तम्, परं न युक्तम्, एकजातीयहेतुं विना कार्येकजात्यासंभवात् ; कुर्वद्रूपत्वस्य च जातित्वाभावेन घटं प्रति घटकुर्वपत्वेन हेतुत्वस्य वक्तुमशक्यत्वात् सामग्रीत्वेन कार्यव्याप्यत्वस्य वास्तविकत्वेन गौरवस्याsदोषत्वात् प्रत्यभिज्ञादिवान क्षणिकत्वस्य निषेत्स्यमानत्वाच्च । किञ्च, एकत्र घटकुर्वद्रूपसवेऽन्यत्र घटानुत्पत्तेर्देशनियामकत्वाश्रयणे स्वभाववादत्यागः, auriat घटादिहेतुत्वं प्रमायैव प्रेक्षावत्प्रवृत्तेश्व; अन्यथा दण्डादिकं विनाऽपि घटादिसंभावनया निष्कम्पप्रवृत्यनुपपत्तेरिति दिग् । न च निर्हेतुका भावा इत्यभ्युपगमेनाऽपि स्वभाववाद साम्राज्यम्, तत्र हेतूपन्यासे वदतोव्याघातात्; तदुक्तम् — "न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव बाधते । Jain Education International For Private & Personal Use Only सटीकः । 112011 www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy