________________
शास्त्रप्रतिपादितशुभा-ऽशुभक्रियाफलनियमाभावश्च स्यात् । तद्धेतुकत्वान्तर्भावितनियमस्य नियतिप्रयोज्यत्वे च सिद्धमितरहेEN तुना, पारिभाषिककारणत्वप्रतिक्षेपस्याऽवाधकत्वादिति दिग् ॥ ७३ ॥
स्वभावाश्रयणेऽपि दोषमाहस्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः। तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते॥७४॥
स्वभावोऽपि च स्खो भावः, कर्मधारयाऽऽश्रयणात् , एकपदव्यभिचारेऽपि तस्य बहुलमुपलम्भात् । अन्यभावपदार्थभ्रान्तिनिरासाय तद्विवरणमाह-हि निश्चितम् , भावतः- अध्यक्षविषयतया, स्वसत्तैव ; तस्याऽपि-स्वभावस्य, भेदकाभावेवैजात्याभावे, वैचित्र्यं- कार्यवैचित्र्यप्रयोजकत्वम् , नोपपद्यते ॥ ७४ ।। ततस्तस्याविशिष्टत्वाद्युपगपद्विश्वसंभवः। न चासाविति सद्युक्त्या तद्वादोऽपि नसंगतः॥७॥
ततः- वैचित्र्याभावात् , तस्य- स्वभावस्य अविशिष्टत्वात्- एकरूपत्वात् , विश्वजनकत्वे, युगपत्- एकदैव, विश्वसंभव:- जगदुत्पादप्रसङ्ग ने च स्याद् युगपज्जगदुत्पादः, भवति, इति हेतोः, सयुक्त्या- अबाधिततर्केण, तद्वादोऽपि- स्वभाववादोऽपि, न संगतः। ननु स्वभावस्य क्रमवत्कार्यजनकत्वमपि स्वभावादेवेति नानुपपत्तिरिति चेत् । न, तस्यैव स्वभावस्य
. सिद्धामित्यत्र भावे क्तः । २ तस्य- कर्मधारयस्य । ३ सर्वत्रादर्शेषु पाठोऽयं लेखकप्रमादकृतः प्रतिभाति 'न चासौ-यु' इति स्यात् , युक्तं स्यात् ।
बाइ88
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org