________________
शाखवार्ता- ॥८६॥
हाहाहाकार
असंगतम् , कारणसरूपत्वात् कार्यस्येति भावः । एतेन 'तद्वयक्तिनिरूपितनियतित्वेन तव्यक्तिजनकत्वम्' इत्यप्यपास्तम्, सटीकः । 'तनियतिजन्यत्वेन तव्यक्तित्वसिद्धिः, तत्सिद्धौ च तद्वयक्तिनिरूपितत्वेन नियतिजन्यतासिद्धिः' इत्यन्योन्याश्रयात् , कार्यस्य कारणतानवच्छेदकत्वाच्च, अन्यथा नियतित्वनिवेशवैयर्थ्यादिति दिग् ॥ ७२ ॥
ननु नियतिस्वभावभेदादेव कार्यभेदोऽस्तु, इत्याशङ्कयाहतस्या एव तथाभूतः स्वभावो यदि चेष्यते। त्यक्तो नियतिवादः स्यात्स्वभावाश्रयणान्ननु॥७३॥
यदि च तस्या एव-नियतेरेव, तथाभूतः- कार्यवैचित्र्यप्रयोजकः, स्वभावभेद इष्यते, तदा 'ननु' इत्याक्षेपे, स्वभावाश्रयणाद् नियतिवादस्त्यक्तः स्यात् । अथ तत्स्वभावस्तत्परिपाक एवेति नान्यहेतुत्वाभ्युपगम इति चेत् । न, परिपाकेऽप्यन्यहेत्वाश्रयणावश्यकत्वात् । अन्यत्र परिपाकद्वैविध्यदर्शनेऽपि नियतिपरिपाकः स्वभावादेवेति चेत् । घट्टकुटीप्रभातापत्तिः ।। उत्तरपरिपाके पूर्वपरिपाक एव हेतुः, आद्यपरिपाके चान्तिमापरिपाक एव, इत्यादिरीत्या विशिष्य हेतु-हेतुमद्भावाद् न दोष इति चेत् । तइँकदैकत्र घटनियतिपरिपाकेऽन्यत्रापि घटोत्पत्तिः, प्रतिसंतानं नियतिभेदाभ्युपगमे च नियति-परिपाकयोव्यपर्यायनामान्तरत्व एव विवादः। किञ्च, एवं शास्त्रोपदेशवैयर्थ्यप्रसक्तिः, तदुपदेशमन्तरेणाऽप्यर्थेषु नियतिकृतत्वबुद्धेर्नियत्यैव भावात् , दृष्टा-ऽदृष्टफल
॥८६॥ १ ख. ग. घ. च. 'दृष्टफ'।
For Private Personal Use Only
Jain Education International
ww.jainelibrary.org