________________
Seo
To जनकनियतेः, तदन्यभेदक- नियत्यन्यभेदकम्, मुक्त्वा- अनभ्युपगम्य, सम्यग्न्यायाऽविरोधतः- सत्ता प्रातिकूल्येन, विचित्रता स्यात् ।। ७०॥
एतदेव प्रकटयबाहन जलस्यैकरूपस्य वियत्पाताद् विचित्रता। ऊपराधिधराभेदमन्तरेणोपजायते॥७१॥ ___ जलस्य, एकरूपस्य- जलत्वेन समानस्य, वियत्पातात्- अभ्रपातादनन्तरम् , ऊपरादिधराभेदम्- ऊपरेतरपृथिवीसंवन्धादिजन्यवर्ण-गन्ध-रस-स्पर्शादिवलक्षण्यम् , अन्तरेण, विचित्रता न दृश्यते; सकललोकसिद्धं खल्वेतत्, तथा, नियतेरप्यन्यभेदकं विना न भेद इति भावः ॥ ७१ ॥
अस्तु तर्हि तदन्यभेदकम् , अत्राहतद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता। तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसंगतम् ॥७२॥
तद्भिन्नभेदकत्वे च- तद्भिन्नं भेदकं यस्यास्तस्या भावस्तत्त्वमिति समासः, नियतिभिन्नभेदकशालित्वे नियतेरङ्गीक्रियमाण इत्यर्थः, तत्र- भेदकत्वेनाऽभिमते, तस्याः- नियतेः, न कर्तृता- न हेतुता, तथाच सर्वहेतुत्वसिद्धान्तव्याकोपः । तत्कर्तृत्वे च-नियतर्भेदकत्वाभिमतहेतुत्वे च, चित्रत्वं- भेदकत्वम् , तद्वत्- नियतिवत् , तस्यापि- भेदकत्वाभिमतस्यापि,
Jain Education in
For Private
Personel Use Only
row.jainelibrary.org