________________
शास्त्रवार्ता
॥ ८५ ॥
Jain Education Inter
रूपमेव, परमाणु साद्भूतानां च शाल्यादिवीजानां शाल्याबङ्कुरजनकत्वमेत्र, इति नियमे परेणाऽप्यदृष्टस्यैवाऽङ्गीकारात् सर्वत्र सटीकः तद्धेतुत्वस्यैवौचित्यात् । ननूक्तमेव नियत्यादेः कार्यवैचित्र्यम्, अत एतत्पक्षेणैव प्रत्यासच्या प्रतिलोमक्रमेण तदूपणार्थमाहतस्य- भोग्यस्य, विचित्रत्वम् यस्माद्धेतोः, नियत्यादेः- नियत्यादिप्रयोज्यम्, न युज्यते ॥ ६८ ॥
तथाहि
नियतेर्नियतात्मत्वान्नियतानां समानता । तथानियतभावे च बलात्स्यात् तद्विचित्रता ॥६९॥
नियतेर्नियतात्मत्वात् एकरूपत्वात्, नियतानां तज्जन्यत्वेनाभिमतानाम्, समानता स्यात्, तथा अदृष्टप्रकारानतिक्रमेण अनियतभावे च असमानकार्यकारित्वे च नियतेरभ्युपगम्यमाने, बलात्- न्यायात्, तद्विचित्रता - नियतिविचित्रता, स्यात् 'घटो यदि पटजनकाऽन्यूना ऽनतिरिक्तहेतुजन्यः स्यात्, पटः स्यात्; घटजनकं यदि पटं न जनयेत्, पटजनकाद् भिद्येत' इति तर्कद्वयम् ।। ६९ ।।
प्रागुक्तरीत्या कार्यवैचित्र्य निर्वाहकतयैव नियत्यभ्युपगमाद् द्वितीय इष्टापत्तिमाशङ्कयाहन च तन्मात्रभावादे र्युज्यतेऽस्या विचित्रता । तदन्यभेदकं मुक्त्वा सम्यग्न्यायाविरोधतः॥७०॥ न च - नैव, तन्मात्रभावादेः- तन्मात्राभावो नियतिमात्रत्वम्, आदिना परिणामग्रहः ततोऽस्याः - प्रतिनियतकार्य
For Private & Personal Use Only
11 64 11
www.jainelibrary.org