________________
विवक्षितस्थाने, स्थाल्यादिभङ्गभावेन, नोपपद्यते-न सिध्यति । दृष्टकारणवैगुण्यादेव तत्र कार्याभाव इति चेत् । तर्हि तद्वैगुण्यं यनिमित्तम् , तत एव कार्यवैगुण्यं न्यायप्राप्तम् , 'तद्धेतोः' इति न्यायात् । नन्वेवं नियमतो दृष्टकारणापेक्षा न स्यादिति चेत् । न स्यादेव, तथाविधप्रयत्नं विनापि शुभादृष्टेन धनप्राप्त्यादिदर्शनात् । कर्मविपाककालेऽवर्जनीयसंनिधिकत्वेनैव तेषां निमित्तत्वव्यवहारात् । अत एव दृष्टकारणानामदृष्टव्यञ्जकत्वम् ' इति सिद्धातः तदुक्तम्
"यथा यथा पूर्वकृतस्य कर्मणः फल निधानस्थमिवाऽवतिष्ठते ।
तथा तथा तत्पतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥ १॥" इति । न च विपाककालापेक्षणात् कालवादप्रवेशः, तस्य कर्मावस्थाविशेषरूपत्वात् । न च कर्महेत्वपेक्षावयाथम् , अनादित्वात् कर्मपरम्परायाः ॥ ६७॥
विवक्षे बाधकमाहचित्रंभोग्यं तथा चित्रात्कर्मणोऽहेतुतान्यथा। तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते॥६॥
तथा- प्रतिनियतरूपेण, चित्रं- नानाप्रकारम् , भोग्यम् , चित्रात्कर्मणो घटते, तस्य तत्तत्कार्यजनकविचित्रशक्तियोगित्वात् । अन्यथा- चित्रकर्मानभ्युपगमे, अहेतुता स्यात् , 'चित्रभोग्यस्य' इत्यनुपज्यतेः कचिदुद्भूतरूपमेव, कचिच्चानुभूत
१ तेषां दृष्टकारणानाम् । २ स. ग. प. च, 'तव्य' ।। चित्रकर्मणः ।
Jain Education Intel
For Private & Personel Use Only
|ww.jainelibrary.org