________________
सटीकः।
शास्त्रवातो अथ कर्मवादमाह--. ॥८॥ न भोक्तव्यतिरेकेण भोग्यं जगति विद्यते। न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः६५
भोक्तृव्यतिरेकेण, जगति- चराचरे, भोग्यं न विद्यते, भोग्यपदस्य ससंबन्धिकत्वात् । न चाकृतस्य भोक्ता स्यात् , Ko स्वव्यापारजन्यस्यैव स्वभोग्यत्वदर्शनात् । अन्यथा, मुक्ताना- निष्ठितार्थानाम् , भोगभावतः- भोगप्रसङ्गात् ॥६५॥
ततः किम् ?, इत्याहभोग्यं च विश्वसत्त्वानां विधिना तेन तेन यत्।दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत्॥६६॥
भोग्यं च- भोगप्रयोजनं च, सत्त्वानां- संसारिणाम् , तेन तेन- सुख-दुःखप्रदानादिलक्षणेन, विधिना- प्रकारेण, इदं विश्व-जगत , अध्यक्षमेव- स्वसंवेदनसाक्षिकमेव, दृश्यते, यद्- यस्माद् हेतोः तस्मात् कारणात् , हि-निश्चितम् , तत्Ho जगत् , तत्कर्मज- भोक्तृकर्मजम् ; जगद्धेतुत्वं कर्मण्येव, नान्यत्र, इतरेषां पराभिमतहेतूनां व्यभिचारित्वादिति भावः ॥६६॥
तथान च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते। स्थाल्यादिभङ्गभावेन यत्क्वचिन्नोपपद्यते॥६॥ ___न च तत्कर्मवैधुर्ये- भोक्तृगतानुकूलादृष्टाभाषे, मुद्गपक्तिरपीक्ष्यते । कथम् ?, इत्याह- यद्- यतो हेतोः, कचिन्-
॥४॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org