SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ वैजात्योभयानुवेधस्य नियतिं विनाऽसंभवात् । हेतुना व्यक्तिरेवोत्पाद्यते, उभयानुवेधस्तु तत्र तत्वान्तरसंवेधादिति चेत् । न, समवायादिनिरासेन तत्संवेधानुपपत्तेः, अनिरासेऽपि तत्रैव तत्संवेधनियामकगवेषणात् । किञ्च, दण्डादिसत्त्वेऽवश्यं घटोत्पत्तिरिति न सम्यग् निश्चयः, तत्सत्त्वेऽपि कदाचिद् घटानुत्पत्तेः । किन्तु संभावनैव, इति न दृष्टहेतुसिद्धिः, 'यद् भाव्यं तद्भवत्येव' इति तु सम्यग् निश्चयः। न चैव कार्योत्पत्तेः पूर्व नियत्यनिश्चयात् प्रवृत्तिर्न स्यादिति वाच्यम् , अविद्ययैव प्रवृत्तेः, फललाभस्य तु यादृच्छिकत्वादिति दिग् ॥ ६३ ॥ उक्तमेव बाधकविपक्षत्वेनाह। अन्यथानियतत्वेन सर्वभावः प्रसज्यते। अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च ॥६४॥ अन्यथा- नियतिजन्यत्वं विना, अनियतत्वेन हेतुना, सर्वभावः प्रसज्यते, व्यक्त्यविशेषात् । च पुनः अन्योन्यात्मक तापत्तेः- घट-पटाद्यविशेषापत्तेः, क्रियावैफल्यमेव, सिद्धाया व्यक्तरसाध्यत्वात् । सा व्यक्तिरसिद्धैवेति चेत् । तत्त्वं नान्यभेदः, तदग्रहेऽपि 'सोऽयम्' इति तत्ताग्रहात् । न च तद्व्यक्तिरेव तत्त्वम् , तस्य तत्राविशेषणत्वात् , किन्तु नियतिकृतधर्म एव ; इति सिद्धं नियत्या ॥६४॥ ॥ उक्तो नियतिवादः॥ ६४॥ । Join Education in For Private & Personal Use Only ww.jainelibrary.org LEOA
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy