________________
शास्त्रवार्ता -
॥ ८३ ॥
Jain Education In
दृश्यते तद्- घटादिकम्, तदैव विवक्षितकाल एव ततः- दण्डादेः, तथा तावदेशव्यापि लोके - जगति, नियतम्नियतिकृतम् जायते । ततो न्यायात्- तर्कात्, के एतां नियतिम् वाधितुं क्षमः प्रमाणसिद्धेऽर्थे वाघानवतारात्, नियतरूपावच्छिन्नं प्रति नियतेरेव हेतुत्वात्, अन्यथा नियतरूपस्याप्याकस्मिकताssपत्तेः १ । न च तावद्धर्मकत्वं न जन्यतावच्छेदकम्, किन्त्वार्थसमाजसिद्धमिति वाच्यम् नियतिजन्यत्वेनैवोपपत्तावार्थसमाजाऽकल्पनात्, भिन्नसामग्रीजन्यतयैकवस्तुरूपव्याघातापत्तेश्च । तदुक्तम् —
"" प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा ।
भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभाव्यं भवति, न भाविनोऽस्ति नाशः ॥ १ ॥ " इति ॥ ६२ ॥ इदमेव विवृणोति —
| न चर्ते नियतिं लोके मुद्द्रपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः ॥ ६३ ॥ न च लोके - जगति, नियतिमृते नियतिं विना, मुद्रपक्तिरपीक्ष्यते दृश्यते; यतस्तत्स्वभावादिभावेऽपि - मुद्रपक्तिजनकस्वभावव्यापारादिसत्त्वेऽपि नासौ- अधिकृता मुद्द्रपक्तिः, अनियता, किन्तु स्वरूपनियता । न चैतद् नैयत्यं स्वभावप्रयोज्यम्, स्वभावस्य कार्येकजात्यप्रयोजकत्वात्, अतिशयरूपस्याऽपि तस्य विशेष एव प्रयोजकत्वात्, पत्यन्तरसाजात्य१ सर्वत्र मूलपुस्तकादर्शेषु 'पीप्यते इति पाठः ।
For Private & Personal Use Only
सटीकः ।
॥ ८३ ॥
www.jainelibrary.org