________________
नक
"कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रसङ्गः॥१॥" इति ॥६०॥
॥ उक्तः स्वभाववादोऽपि ॥ अथ नियतिवादमाहनियतेनैव रूपेण सर्वे भावा भवन्ति यत्। ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः॥६॥
नियतेनैव- सजातीय-विजातीयव्यावृत्तेन स्वभावानुगतेनैव रूपेण, सर्वे भावा भवन्ति, यद्- यस्माद् हेतोः । ततो हि-निश्चितम्, एते- भावाः, नियतिजा:- नैयत्यनियामकतत्वान्तरोद्भवाः । हेत्वन्तरमाह- तत्स्वरूपानुवेधतः- नियतिकृतप्रतिनियतधर्मोपश्लेषात् । दृश्यते हि तीक्ष्णशस्त्रायुपहतानामपि मरणनियतताभावेन मरणम्, जीवननियततया च जीवनमेवेति ॥ ६१॥
___इदमेव स्फुटमाहयद्यदैव यतो यावत्तत्तदैव ततस्तथा। नियतं जायते, न्यायात्क एतां बाधितुंक्षमः१॥६२॥
यद्- घटादिकम्, यदैव- विवक्षितकाल एव, यतः- दण्डादेः, यावत्- विवक्षिताल्प-बहुदेशव्यापि, जायमानं
खाटककार
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org