________________
॥८२॥
शास्त्रवातो- किन्तु सामग्रीमेव कार्यजनिकां ब्रूमः, अश्वमाषस्य च पक्ति प्रति स्वरूपयोग्यतैव न, इति को दोषः, इति चेत् ।
सटीकः। ___ अत्र वदन्ति- अन्तरङ्गत्वात् स्वभाव एव कार्यहेतुः, न तु बाह्यकारणम् । न च मृत्स्वभावाविशेषाद् घटादिकार्याविशेषप्रसङ्गः, 'स्वस्य भावः कार्यजननपरिणतिः' इति स्वभावार्थत्वात् , तस्याश्च कार्यैकव्यङ्ग्यत्वात् । न चेदेवम् , अङ्कुरजननखभावं बीजं प्रागेवाज्ङ्करं जनयेत् । सहकारिलाभा-ऽलाभाभ्यां हेतोः कार्यजनना-ऽजनने उपपत्स्यते इति चेत् । न, सहकारिच
क्रानन्तर्भावेन विलक्षणवीजत्वेनैवाङ्करहेतुत्वौचित्यात् । न च सहकारिचक्रस्यातिशयाधायकत्वं त्वयाऽपि कल्पनीयम् , इति MON HAN तस्य तत्कार्यजनकत्वकल्पनमेवोचितमिति वाच्यम् । पूर्व-पूर्वोपादानपरिणामानामेवोत्तरोत्तरोपादेयपरिणामहेतुत्वात् , अत एव
कालवादाप्रवेशात् । न च चरमक्षणपरिणामरूपबीजस्याऽपि द्वितीयादिक्षणपरिणामरूपाङराजनकत्वाद् व्यक्तिविशेषमवलम्ब्यैव हेतु-हेतुमद्भावो वाच्यः, अन्यथा व्यावृत्तिविशेषानुगतपथमादिचरमपर्यन्ताङ्करक्षणात् प्रतिव्यावृत्ति विशेषानुगतानां चरमबीजक्षणादिकोपान्त्याङ्करक्षणानां हेतुत्वे कार्य-कारणतावच्छेदककोटावेकैकक्षणप्रवेशा-प्रेवशाभ्यां विनिगमनाविरहप्रसङ्गात् । तथा च तज्जातीयात् कार्यात् तज्जातीयकारणानुमानभङ्गप्रसङ्ग इति वाच्यम् ; सादृश्यतिरोहितवैसदृश्येनाऽङ्करादिना तादृशबीजादीनामनुमानसंभवात , प्रयोज्य-अयोजकमावस्यैव विपक्षबाधकतर्कस्य जागरूकत्वादिति । अधिकमध्यात्ममतपरीक्षायाम् । ततः स्वभावहेतुकमेव जगदिति स्थितम् । उक्तं चस्वभाववादिन इति शेषः। २ कार्यजननपरिणतेः। ३ सहकातिरिक्तत्वेन मुख्यतयाऽभिमते हेताविति गम्यते । ४ स्वभाववादिना ।।
on८२॥ ५ सहकारिचक्रस्य । ६ तच्छन्देनाधिकृतपरामर्शः ।
मनामनामनाHIGAR
Jain Education in
For Private
Personel Use Only