________________
हेत्वन्तरे कामचारमेव स्पष्टयतिन विनेह स्वभावेन मुद्गपक्तिरपीष्यते। तथाकालादिभावेऽपि नाश्वमाषस्य सा यतः॥५९॥
इह- जगति, स्वभावेन विना, तथाकालादिभावेऽपि- प्रतिनियतकालव्यापारादिसामग्रीसंनिधानेऽपि, मुद्गपक्तिरपि नेष्यते । कुतः, इत्याह- यतोऽश्वमाषस्य-कङ्कदुकस्य, सा-पक्तिः, न भवति । न ह्यश्चमाषे विलक्षणाग्निसंयोगादिकं नास्तीति वक्तुं शक्यते, एकयैव क्रियया तत्तदन्यवाहिसंयोगात् । न चादृष्टवैषम्यात् तदपाकः, दृष्टसाद्गुण्ये तद्वैषम्याऽयोगात् । अन्यथा दृढदण्डर्नुन्नमपि चक्रं न भ्राम्येत् । तस्मात् स्वभाववैषम्यादेव तैदपाकः, इत्यन्यत्र कामचारात् स्वभाव एव कारणमिति पर्यवसन्नम् ।। ५९ ॥
उक्तदाढर्यायैव विपक्षे बाधकमाहअतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः।तुल्ये तत्र मृदः कुम्भोन पटादीत्ययुक्तिमत्॥६०॥
अतत्स्वभावात- तत्स्वभावभिन्नात , तत्स्वभावरहिताद् वा; तद्भावे- अधिकृतकार्योत्पादे 'अङ्गीक्रियमाणे' इति शेषः, अतिप्रसङ्गोऽनिष्टप्रसङ्गः, अनिवारितः- अबाधितः । कुतः?, इत्याह- तुल्ये- समाने, तत्र- अतत्स्वभावत्वे सति, मृदा कुम्भ एव जन्यते, न पटादीति, अयुक्तिमत्-नियामकरहितम् । ननु नातत्स्वभावत्वं तज्जननप्रयोजकमुच्यते, येनेयमापत्तिः संगच्छते,
कदुकापाकः । २ नुन्नम्- प्रेरितम् । ३ अतत्स्वभावत्वे मृदः कुम्भाद्यपि न स्यात्, पटाद्यपि वा स्यात् , अविशेषात् , इत्यवरूपा ।
Jain Education Inte
a
For Private & Personal Use Only
www.jainelibrary.org