________________
शास्त्रवार्ता
॥८
॥
स्वभावातिरेकेण-स्व पतिवृत्य, गर्भ-बाल-शुभादिकं यत् किश्चित्- कार्य, लोके न जायते, तत्-तस्मात् कार- सटीकः । णात् , 'किल' इति सत्ये, असौ स्वभावः, कारणं- कादाचित्कत्वनियामकः, आकाशत्वादीनां काचिकत्ववद् घटादीनां कादाचित्कत्वस्येतरानियम्यत्वात् ; आकाशादीनामन्यत्र सचे तत्स्वभावत्वाभावप्रसङ्गस्येव कादाचित्कत्वस्याऽपि गगनादौ सत्त्वे घटादिस्वभावत्वाभावप्रसङ्गस्य बाधकत्वात् ; अवधीनां नियतपूर्ववर्तित्वेऽपि तद्गतोपकाराजनकत्वेनाऽहेतुत्वात् । भवनस्वभावत्वे घटः सर्वदा भवेदिति चेत् । न, तदहरेव भवनस्वभावत्वात् । अथवा, कारणमिति - मुख्य एवाऽर्थः, उपादानस्वभावस्यैवोपादेयगतस्वभावरूपोपकारजनकस्योपादेयहेतुत्वात् । न चोपकारेऽप्युपकारान्तरापेक्षायामनवस्था, तस्य स्वत एवोपकृतत्वात् । दण्डादीनां दण्डरूपादीनामिव नियताऽवधित्वेऽप्यन्यथासिद्धत्वम् , 'दण्डाद् घटः' इति व्यवहारस्तु 'इन्धनात् पाकः' इतिवदेव ।। ५७ ॥ ___ इदमेवाहसर्वे भावाः स्वभावेन स्वस्वभावे तथा तथा। वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः।५८।
सर्वे भावाः, स्वभावेन- स्वगतेन हेतुगतेन वा निमित्तेन, तथा तथा- विशिष्टसंस्थानादिप्रतिनियतरूपेण, स्वस्वभावेआत्मीयात्मीयसत्तायाम् , 'तिलेषु तैलम्' इतिवदभिव्याप्ती सप्तमी, स्वस्वभावमभिव्याप्येत्यर्थः, वर्तन्ते- भूत्वा तिष्ठन्ति । अथ नाशकाले निवर्तन्ते- स्वभावेन नाशभाजो भवन्ति । किंभूताः १ , इत्याह- कामचारपराङ्मुखाः- अनियतभावनिरपेक्षाः ॥१८॥ ॥८१॥
Jain Education Inte
For Private
Personel Use Only
aw.jainelibrary.org