SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वम् तत्क्षणवृत्तित्वं च तत्क्षणस्याऽप्यभेदेऽपि 'इदानी क्षणः' इति व्यवहारात् कालिकाधाराऽऽधेयभावसिद्धेः। अतस्तत्तत्क्षणतन्नाशानां तत्तत्पूर्वक्षणजन्यत्वाद् न क्षणिकत्वानुपपत्तिः। एवं च क्षणिकेनैव क्षणेन कार्यविशेषजननाद् नातिरिक्तहेतुसिद्धिः । न च तत्क्षण एव तन्तौ पटादिकं जायते, घटादिकं त्वन्यत्र, इति देशनियमार्थमतिरिक्तहेतुसिद्धिः, काचित्कत्वस्य नित्य इवाऽनित्येऽपि खभावत एव संभवात् , कादाचित्कत्वस्यैव हेतुनियम्यत्वात् , अन्यत्राऽन्यापत्तेरभावात् । क्षणस्येवाऽन्येषामपि नियतपूर्ववर्तित्वात् कथं हेतुत्वप्रतिक्षेपः १, इति चेत् । 'अवश्यक्लुप्त' इत्याद्यन्यथासिद्धिसद्भावात् । अत एव न पटत्वाद्यवच्छिन्नस्याऽऽकस्मिकतापत्या तदवच्छिन्न प्रति हेतुतासिद्धिः, तदवच्छिन्ननियतपूर्ववर्तित्वनिश्चयादेवैतावत्सत्त्वेऽवश्यं पटोत्पत्तिरिति निश्चयेन कृतिसाध्यताधीसंभवात् । अप्रामाणिकव्यवहारानुपपत्तिरूपमाकस्मिकत्वं तु न बाधकम् , युक्तं चैतत् , अनन्तनियतपूर्ववर्तिष्वनन्यथासिद्धत्वाकल्पनेन लाघवात्' इत्याहुः ॥ ५६ ।। ॥ उक्तः कालवादः॥ अथ स्वभाववादमाहन स्वभावातिरेकेण गर्भबालशुभादिकम्।यत्किञ्चिज्जायते लोके तदसौ कारणं किल॥२७॥ १ ख. ग.घ. च. 'त्वं तत्क्षण-२ अवश्यक्लुप्तनियतपूर्ववर्तिन एवं कार्यसंभवे तद्धतिरिक्तस्याऽन्यथासिद्धत्वेनाऽऽम्नायादिति तात्पर्यम् । Jan Education a For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy