SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वम् तत्क्षणवृत्तित्वं च तत्क्षणस्याऽप्यभेदेऽपि 'इदानी क्षणः' इति व्यवहारात् कालिकाधाराऽऽधेयभावसिद्धेः। अतस्तत्तत्क्षणतन्नाशानां तत्तत्पूर्वक्षणजन्यत्वाद् न क्षणिकत्वानुपपत्तिः। एवं च क्षणिकेनैव क्षणेन कार्यविशेषजननाद् नातिरिक्तहेतुसिद्धिः । न च तत्क्षण एव तन्तौ पटादिकं जायते, घटादिकं त्वन्यत्र, इति देशनियमार्थमतिरिक्तहेतुसिद्धिः, काचित्कत्वस्य नित्य इवाऽनित्येऽपि खभावत एव संभवात् , कादाचित्कत्वस्यैव हेतुनियम्यत्वात् , अन्यत्राऽन्यापत्तेरभावात् । क्षणस्येवाऽन्येषामपि नियतपूर्ववर्तित्वात् कथं हेतुत्वप्रतिक्षेपः १, इति चेत् । 'अवश्यक्लुप्त' इत्याद्यन्यथासिद्धिसद्भावात् । अत एव न पटत्वाद्यवच्छिन्नस्याऽऽकस्मिकतापत्या तदवच्छिन्न प्रति हेतुतासिद्धिः, तदवच्छिन्ननियतपूर्ववर्तित्वनिश्चयादेवैतावत्सत्त्वेऽवश्यं पटोत्पत्तिरिति निश्चयेन कृतिसाध्यताधीसंभवात् । अप्रामाणिकव्यवहारानुपपत्तिरूपमाकस्मिकत्वं तु न बाधकम् , युक्तं चैतत् , अनन्तनियतपूर्ववर्तिष्वनन्यथासिद्धत्वाकल्पनेन लाघवात्' इत्याहुः ॥ ५६ ।। ॥ उक्तः कालवादः॥ अथ स्वभाववादमाहन स्वभावातिरेकेण गर्भबालशुभादिकम्।यत्किञ्चिज्जायते लोके तदसौ कारणं किल॥२७॥ १ ख. ग.घ. च. 'त्वं तत्क्षण-२ अवश्यक्लुप्तनियतपूर्ववर्तिन एवं कार्यसंभवे तद्धतिरिक्तस्याऽन्यथासिद्धत्वेनाऽऽम्नायादिति तात्पर्यम् । Jan Education a For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy