________________
शास्त्रवार्ता- किञ्च कालाहते नैव मुद्गपक्तिरपीक्ष्यते।स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता॥५५॥ सटीकः । ॥८०॥
। 'किञ्च' इत्युपचये, कालाहते- कालं विना, स्थाल्यादिसंनिधानेऽपि, आदिना विलक्षणवहिसंयोगादिग्रहः, मुद्गपक्तिरपि- मुद्गानां विलक्षणरूप-रसादिरूपविक्लूतिपरिणतिरपि, नैवेक्ष्यते । ततोऽसो- मुद्गपक्तिः, कालाद् मता-कालमात्रजन्येष्टा । न च तदा मुद्गपक्तिजनकविलक्षणाग्निसंयोगाभावादेव तेदपक्तिरिति वाच्यम् , तत्रापि हेत्वन्तरापेक्षावैयाथात् , आवश्यकत्वेन कालस्यैव तद्धेतुत्वौचित्यादित्याशयः॥ ५५ ॥
विपक्षे बाधकमाहकालाभावे च गर्भादि सर्व स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात्॥५६॥
कालाभावे च-कालस्याऽसाधारणहेतुत्वानङ्गीकारे च, गर्भादिकं सर्व कार्यमव्यवस्थया- अनियमेन स्यात् । कुतः?, इत्याह- परेष्टहेतुसद्भावमात्रादेव- पराभिमतमाता-पित्रादिहेतुसंनिधानमात्रादेव, तदुद्भवात्- अविलम्बन गर्भाधुत्पत्तिप्रसङ्गात् । ननु कालोऽपि यद्येक एव सर्वकार्यहेतुः, तदा युगपदेव सर्वकार्योत्पत्तिः, तत्तत्कार्ये तत्तदुपाधिविशिष्टकालस्य हेतुत्वे चोपाधीनामेवाऽऽवश्यकत्वात् कार्यविशेषहेतुत्वम् । इति गतं कालवादेन, इति चेत् । अत्र नव्याः - क्षणरूपः कालोऽतिरिच्यत एव, स्वजन्यविभागपागभावविशिष्टकर्मणस्तथात्वे जाते विभागे तदभावापत्तेः, तदाऽन्यविशिष्टकर्मणस्तथात्वेऽननुगमात् , तस्य च
१ सर्वत्र मूलादर्शेषु 'पीप्यते ' इति पाठः । २ तच्छब्दो मुझपरामर्शकः ।
कालवादेन, इतिकार्य तत्तदुपाधिवि
मेणस्तथात्वे
८०॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org