SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ न कालव्यतिरेकेण गर्भकालशुभादिकम् ।यत्किञ्चिज्जायते लोके तदसौ कारणं किल॥५३॥ कालव्यतिरेकेण-स्त्री-पुंससंयोगादिजन्यत्वेन पराभिमतस्याऽपि गर्भस्य जन्म न भवति, न हि तज्जन्मनि गर्भपरिणतिहेतुः, अपरिणतस्यापि कदाचिज्जन्मदर्शनात् । तथा, कालोऽपि शीतो-ष्ण-वर्षाद्यपाधिः, तद्व्यतिरेकेण न भवति । अत्र कालस्थाने 'बाल' इति कचित् पाठः, तत्र बालत्वं जन्मोत्तरावस्था, साऽपि कालव्यतिरेकेण न, अन्यथाऽतिप्रसङ्गादित्यर्थः । तथा, शुभादिकं- स्वर्गादिकम्, आदिना नरकादिग्रहः, यत् किचिल्लोके घटादि, तदपि कालव्यतिरेकेण न भवति, कर्मदण्डादिसत्वेऽपि कालान्तर एव स्वर्ग-घटाद्युत्पत्तेः । तत्- तस्मात् कारणात्, असौ कालः 'किल' इति सत्ये, कारणम्अन्यस्य त्वन्यथासिद्धत्वादसत्यत्वमिति भावः ॥ ५३॥ तथाकालः पचतिभूतानि कालः संहरति प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥५४॥ कालः भूतानि- उत्पत्तिमन्ति, पचति- उत्पन्नानां प्रकृतपर्यायोपचयं करोतीत्यर्थः। तथा, कालः प्रजाः संहरतिप्रकृतपर्यायान्तरपर्यायभाजः करोति । तथा, कालः सुप्तेषु- अजनितकार्येषु पराभिमतकारणेषु सत्सु, जागर्ति-विवक्षितकार्यमुपदधातीत्यर्थः । अतो हि-निश्चितम् , कालः सृष्टि-स्थिति-प्रलयहेतुतया दुरतिक्रमः- अनपलपनीयकारणताकः ॥ ५४॥ Jain Education H o na For Private & Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy