SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ हम शास्त्रवार्ता सटीकः । ॥७९॥ स आत्मा, आत्मनः-स्वस्य, अहितेऽपि- हिंसाधनुष्ठानेऽपि,अनादिकर्मयुक्तत्वाद् हेतोः, तन्मोहात्-कर्मजनितमौढ्यात , संप्रवर्तते-आदरेण प्रवर्तते, पायो बाहुल्येन । किंवत् ? इत्याह-व्याधिपीडितचित्तवत्- रोगाकुलहृदयवत् । यथा व्याधितोऽपथ्यं जानन् , अजानन् वा बहुकालस्थितिकव्याधिमहिम्नाऽपथ्य एवं प्रवर्तते, तथा संसार्यपि जानन् , अजानन् वाऽहित एव प्रायः कर्मदोषात् मवर्तत इति भावः। अत्राहितप्रवृत्तौ क्लिष्टं कर्म हेतुः, तंत्र चाहितप्रवृत्यन्तरम्, इत्यन्योन्याश्रयोऽनादिपदेन न दोषायेति मूच्यते; बीजाऽङ्करस्थलीयस्याऽन्योन्याश्रयस्योत्पत्ति-नप्ल्यप्रतिबन्धकत्वेनाऽदोषत्वादित्याशयः ॥५१॥ ___ अत्र प्रसङ्गाद् वार्तान्तरमाह-- कालादीनां च कर्तृत्वंमन्यन्तेऽन्ये प्रवादिनः।केवलानां तदन्येतु मिथः सामग्ऱ्यापेक्षया ५२ _ अन्ये प्रवादिनः- एकान्तवादिनः, कालादीनाम्, आदिना स्वभावादिग्रहः, केवलाना- परक्लुप्तहेतुरहितानाम्, कर्तृत्वम् - असाधारणत्वेन हेतुत्वम्, मन्यन्ते । तदन्ये तु- अनेकान्तवादिनः सामग्यपेक्षया- सामग्रीप्रविष्टत्वेन, मिथः- परस्परम् , सहकारिलक्षणं कर्तृत्वं 'मन्यन्ते' इति प्राक्तनानुषङ्गः । इदमेवाऽभिहितं सम्मतिकारेण "कालो सहाव-णियई पुबकयं पुरिसकारणेगंता । पिच्छत्तं ते चेव उ समासो हुंति सम्मत् ॥१॥" इति ॥५२॥ 'तत्र पूर्व कालवादिमतोपपत्तिमाहलिष्टे कर्मणि । २ कालः स्वभाव-नियती पूर्वकृतं पुरुषकारणमेकान्तात् । मिथ्यात्वं त एव तु समासंतो भवन्ति सम्यक्त्वम् । ३ सम्मतिसूत्रे १५० । ॥७९॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy