________________
ततश्च-अन्यागमाना दृष्टे-ष्टविरुद्धत्वेनाऽप्रतिपक्षत्वाच, इति-पूर्वोक्तम् , अद:-वक्तृप्रत्यक्ष 'हिंसादिभ्योऽशुभादि' इत्यादि, स्थितम्- अमामाण्यशङ्काविरहितेनाऽऽगमप्रमाणेन सिद्धम् ।। ४९ ॥
ततः सिद्धं प्रतिनियतं कर्म, तच्च कर्तारमाक्षिपति, इति तथात्वं स्वात्मन एव, इति नियमयति-. क्लिष्टं हिंसाद्यनुष्ठानं न यत्तस्यान्यतो मतम्।ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः॥
क्लिष्टं-रौद्राध्यवसायपूर्वकम् , प्राणिघाताद्याचरणम् । इदमुपलक्षणमक्लिष्टाचरणस्य, यत्- यस्माद्धेतोः, तस्यआत्मना, अन्यतः- स्वातिरिक्तव्यापारवतः, न मतं- नाऽभीष्टम् , देवदत्तयोगेन यज्ञदत्तानुष्ठानाभावात् । ततःतस्माद्धेतोः, स एव- अधिकृतात्मैव, हि-निश्चितम् , सर्वस्यैव- स्वीयहिता-ऽहितकर्मणः, कर्ता स्यात् , स्वव्याप्यस्य कर्मणः कारणान्तराप्रयोज्यत्वे सति कारणान्तरप्रयोजकत्वलक्षणस्वातन्त्र्येण हेतुत्वात् । अत्र 'निश्चयतोऽपृथग्भावेन स्वव्याप्यस्य रागद्वेषाद्यध्यवसायलक्षणस्य भावकर्मणः परिणामित्वलक्षणस्वातन्त्र्येण कर्तृत्वम् ; व्यवहारेण तु संयोगविशेषेण स्वव्याप्यद्रव्यकर्मणि योगव्यापारस्वातन्त्र्येण कर्तृत्वमिति विवेकः ॥५०॥
ननु यद्यात्मैव कर्ता, तदा हितमेवाऽयं कुर्यात्, नाहितम् इत्यत्राहअनादिकर्मयुक्तत्वात्तन्मोहात्सप्रवर्तते।अहितेऽप्यात्मनः प्रायोव्याधिपीडितचित्तवत्॥५१॥
. निश्चयनयमतमाश्रित्येत्यर्थः । २ व्यवहारनयापेक्षया ।
Cale
Jain Education in
For Private
Personal Use Only