________________
सटीकः।
शास्त्रवार्ता- तान्त्रिकाः । द्रव्य-भावोभयहिंसालक्षणं चैतत्, कर्मबन्धजनकता तु प्रकृतिप्रदेशावाश्रित्य प्रमत्तयोगत्वेन, स्थिति-रसौ चाश्रित्य ॥ ७८॥
7 क्लिष्टाध्यवसायत्वेन, इत्यन्यत्र विस्तरः। तस्माद् हिंसायामहिंसात्वं समर्थयता परेषां वेदावलम्बनमपि महतेऽनाय ; उक्तं चं"
"ये चक्रुः क्रूरकर्माणः शास्त्रं हिंसोपदेशकम् । क ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः? ॥१॥
वरं वराकचार्वाको योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छनच्छन्नं रक्षो न जैमिनिः ॥२॥” इति । वेदाप्रामाण्यं पापकर्मणि प्रवर्तकत्वात् , परपरिगृहीतत्वाच विभावनीयम् , इति किमतिहित्रेण सह बहुविचारणया? ॥४८॥
तदेवं याशिकाऽऽगमे दृष्टे-ष्टविरुद्धतामुपदर्य, अन्यत्राऽप्यतिदिशन्नाहअन्येषामपिबुद्धयैवं दृष्टेष्टाभ्यां विरुद्धता।दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः॥४९॥
अन्येषामपि- आजीवकादिसंबन्धिनाम् , एवम्- उपदर्शितप्रकारेण, बुद्ध्या- विचारणया, कुशास्त्राणां- शास्त्राभासाFol नाम् , दृष्टे-ष्टाभ्यां विरुद्धता दर्शनीया, उपदर्शितजातीयत्वेन सर्वेषामपि तेषां दुष्टत्वात् , तदुक्तं स्तुतिकृता
" हिंसादिसंसक्तपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः।।
नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम् ।। १॥" इति । आईतसिद्धान्तनिष्णाताः। २ कलिकालसर्वज्ञहिमचन्द्राचार्येण । ३ योगशास्त्रे द्वितीयस्मिन् प्रकाशे श्लो. ३७,३८ । ४ अयोगव्यवच्छेदद्वात्रिंशिकायां श्लो०१०।
Jain Education International
For Private Personal use only
www.jainelibrary.org