________________
Jain Education Inte
तत्रापि पूर्णप्रायश्चित्ताभावाद् न हिंसेति वाच्यम्, अर्धप्रायश्चित्तस्थापि हिंसानिमित्तत्वात् । एतेन 'मरणजनकादृष्टाजनकत्वलक्षणं तद्व्यापारविशेषणम्' इत्यपि निरस्तम् इतरहिंसाजनकतादृशाऽदृष्टाऽमसिद्धेश्व मरणोद्देश्यकत्वमपि न मरणत्वमकारके - च्छाsजन्येच्छाविषयत्वम्, धनादिलिप्सया हिंसायामतिव्याप्तेः ; किन्तु मरणजनकेच्छाऽविषयत्वम् तथा च त्वङ्गहिंसायामतिव्याप्तिः अत एव मरणफलकत्वाबोधकविधिबोधितकर्तव्यताकान्यत्वरूपाऽदृष्टाऽद्वारकत्वानिवेशेऽपि न निस्तारः । न चाविहिमात्रनिवेशेऽपि निर्वाहः प्रमादकृतहिंसायामव्याप्तेः विहितेऽपि श्येनादौ त्वदीयानामपि हिंसाव्यवहारात्, अनेन रूपेण पापजनकत्वे गौरवाचेति दिम् ।
तस्मात् 'प्रमादयोगेन प्राणव्यपरोपणं हिंसां' इति परमर्षिप्रणीतमेत्र हिंसालक्षणं सम्यक् । अत्र च प्रमादयोगःयतनाऽभावः, यतना च जीवरक्षानुकूलो व्यापारः, तेत्रं च जीवमरणव्यापारविघटकत्वम्, युगमात्रक्षेत्रे सम्यग्नेत्रव्यापाररूपेर्यासमित्यादिना जीवमरणजनकचरणव्यापार देरनिष्टसाधनत्वेन निवर्तनादिति बोध्यम् । न च 'मरणानुकूलव्यापारेण ' इत्येवास्तु, किमधिकेन ?, इति वाच्यम् । अप्रमत्तहिंसायामतिव्याप्तेः । न चैवमप्यनाभोगाविघटनेनाऽप्रमत्तहिंसाया हिंसास्वापत्तिः, शक्यविघटनत्वस्य व्यापारविशेषणत्वात् । न चैवमप्यनशनादावतिव्याप्तिः, परजीवग्रहणे चात्महिंसायामव्याप्तिरिति वाच्यम्; शुभसंकल्पापूर्वकत्वस्य मरणव्यापारविशेषणत्वात् । न चैवं याज्ञिकानामपि त्वङ्गहिंसायां शुभसंकल्पाद् न दोष इति वाच्यम्, विधिजन्य मोक्षेच्छाया एव शुभसंकल्पपदेन ग्रहणात् । अत एव राज्यादिनिदानार्थमनशनमप्यात्महिंसां वदन्ति १ तत्रार्थसूत्रे ७, ८ । २ जीवरक्षानुकूलव्यापारत्वं च ।
For Private & Personal Use Only
ww.jainelibrary.org