________________
शास्त्रवार्ता
110011
नुबन्धिपुण्यविपाकनिमित्ततया श्येनाऽग्रीषोमादीनामिष्टप्रयोजकत्वमात्राभ्युपगमे न किञ्चिद् बाधकम् । 'यो यद्गतफलार्थितया क्रियते स तद्वतकिश्चिदतिशयजनकः' इति नियमात् शत्रुवधार्थितया क्रियमाणं श्येनजन्यादृष्टं पापरूपं शत्रावेव स्वीक्रयत इति चेत् । कथं तर्हि श्येनकर्तुर्नरकावाप्तिः श्येनध्वंसस्य श्येन व्यापारतायामन्यत्राऽप्यदृष्टोच्छेदमसङ्गात् शत्रुनिष्ठपापस्य च भोगेन नाशात् ? । न चायं नियमोऽपि, कर्मणः समानाधिकरणस्यैवाऽदृष्टस्य जनकत्वात्, तत्तददृष्टाऽन्यादृष्टत्वेन समानाधिकरणकर्मजन्यत्वे गौरवात् । एतेन श्येनात् पापद्वयाभ्युपगमोऽपि परास्तः इति न किञ्चिदेतत् ।
ये तु - ' श्येनेऽपि बलवदनिष्टाननुवन्धित्वं न वाधितान्त्रयम्, न हि सा हिंसा, अदृष्टाद्वारकमरणोद्देश्यकमरणानुक्रूलव्यापारस्यैव हिंसात्वात् । गङ्गामरणार्थक्रियमाणत्रिसन्ध्यस्तवपाठवारणाय 'अदृष्टाsद्वारक -' इति विशेषणम् ; कूपकर्तुर्दैवाद कूपपतितगोहिंसावारणाय 'मरणोद्देश्यक' इति । तथा च श्येनस्याऽपि न निषिद्धत्वम्' इत्याहुः ।
तेषां हिंस्राणामपूर्वा हिंसारसिकता, यया श्येनकर्तुरपि वैरिमरणप्रयोजकवज्रपाताद्यकर्तृत्वेन शिष्टत्वमनुमतम्, अनर्थप्रयोजकेऽपि निषेधविधिमवृत्तौ च प्रतिज्ञाबाध इति । न च तैः पाप्मभिहिंसालक्षणं स्वमतेनाऽपि सुष्ठु घुष्टम्, स्वजन्याऽदृष्टाजन्यत्वस्य मरणविशेषणत्वंडसंभवात्, कार्यमात्रस्याऽदृष्टजन्यत्वात्, सामानाधिकरण्येनाऽदृष्टजन्यत्वनिवेशे च श्येनातिव्याप्तेः । एतेन 'अदृष्टव्यापार संबन्धेन स्वाजन्यत्वं तत्' इत्यपि निरस्तम्, प्रतियागमतिवद्धश्येनातिव्याप्तेश्च । न च तत्र मरणोपधायकत्वलक्षणं मरणानुकूलत्वमेव न, इति नातिव्याप्तिरिति वाच्यम्; खड़घातेनाऽपि यत्र दैवाद् मरणं तत्राऽव्याप्त्यापत्तेः । न च १ घुषेर्विशब्दनार्थादविशब्दने ः ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
11 66 11
www.jainelibrary.org