________________
Jain Education Inter
श्राद्धजन्यतावच्छेक पुण्यत्वाऽवान्तरजातिव्यापकजात्यवच्छिन्नं प्रति रात्रीतरश्राद्धकरणस्य कारणत्वेन रात्रिकृतश्राद्धात् फलानुत्पादसंभवात् । अथ तत्रापि विशेषनिषेधे सामान्यविधिः, तदितरपरत्वव्युत्पत्न्या प्रसा नत्रैवोपपत्ती नो भेदवत्परत्वं स्वीक्रियत इति चेत् । तर्हि सामान्यविधेरसंकोचानुरोधेन निषेधविधौ विशेषणाभावमात्रविषयत्वं स्वीक्रियताम्, विकल्प एव वा ।
यैस्तु तत्र पर्युदासविषयप्राप्ते श्राद्धे रात्रिभिन्नत्वरूपगुणविधानमेव स्वीक्रियते, न तु रात्रिभिन्नाऽमावास्यात्वेन निमितत्वम्, विशेषण - विशेष्यभावविनिगमनाविरहेणातिगौरवात् । तैरत्रापि सामान्यनिषेधविधावक्रत्वङ्गहिंसात्वेन निमित्तत्वं परित्यज्य ऋत्वङ्गहिंसायां श्येन इव बलवदनिष्टाननुबन्धित्वान्वय परित्यागमात्रे किं न मनो दीयते, प्रवृत्तेस्तद्वदेवोपपत्तेः ? । एतेन ' तेन रूपेण निमित्तताऽऽर्थिकी, इति न शक्यार्थत्यागः' इत्यपास्तम्, अर्थतः क्रवद्दहिंसायां बलवदनिष्टाननुबन्धित्वस्यैवाऽसिद्धेः, श्येन इव तत्र सामान्यनिषेधवाधादेव तदनन्वयात् ' श्येने तदनन्वयप्रयोजकं तात्पर्यम्, ऋत्वङ्गहिंसायां तु न तेत्' इति कल्पनागौरवे हिंसारसिकत्वं विनाऽन्यस्य बीजस्याऽभावात् ।
अनीषोमादेः स्वर्गजनकत्वं श्रुतं तदङ्गहिंसाया बलवदनिष्टानुवन्धित्वं विरुन्ध्यादिति चेत् । श्येनस्याभिचारजनकत्व मपि किं न तथा । श्येनजन्याऽदृष्टस्य शत्रुवध-नरकोभयजनकत्वाद् न विरोध इति चेत् । तर्हि त्वङ्गहिंसाजन्याऽदृष्टस्यापीष्टानिष्टोमयजनकत्वमङ्गीक्रियताम् । एवं सति पुण्यत्व- पापत्वयोः साङ्कर्यमिति चेत् । तदिदं तवैव संकटम् ; अस्माकं तु पापा१ तच्छब्देन बलवदनिष्टाननुबन्धित्वम् । २ तद्- बलवदनिष्टाननुबन्धित्वानन्वयप्रयोजकं तात्पर्यम्। ३ तब नैयायिकस्य ४ अस्माकम् - जैनानाम् ।
For Private & Personal Use Only
ww.jainelibrary.org