SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता॥ ७६ ॥ Jain Education क्रत्वङ्गत्वा-ऽनर्थहेतुत्वयोर्विरोधः, इति प्रत्यवायजनकेऽपि प्रवर्तकस्यैतादृश वाक्यस्याऽर्थशास्त्रत्वमेव, न धर्मशास्त्रत्वम्, इति प्रति पत्तव्यम् । प्राभाकरमतेऽपि श्येनस्य विधिना फलसाधनत्वज्ञापनं विना प्रनृत्यविषयत्वात् कथं रागजन्यमनृत्यविषयत्वम् ? । प्रधानहिंसात्वेन चाधर्मजनकत्वेऽन्यहिंसाया अधर्मजनकत्वं न स्यात् । रागप्राप्तहिंसात्वेन तथात्वेऽपि रागमाप्तत्वं यदि विध्यजन्येच्छाविषयत्वम्, तदा श्येनासंग्रहः, यदि चाङ्गविध्यजन्येच्छाविषयत्वम्, तदा श्येनाङ्गाऽसंग्रहः, गौरवं च इति न किञ्चिदेतत् । एतेन 'भाट्टदर्शनमवलम्ब्याभिहितम्, अशुद्धमिति चेत्, न शब्दात् ' इति वादरायणसूत्रमप्यपास्तम् । नैयायिकास्तु - 'इष्टसाधनत्वम्, कृतिसाध्यत्वम्, वलवदनिष्टाननुबन्धित्वं च इति त्रयमेव विध्यर्थः । तत्र क्रत्वर्थहिंसायां साक्षाद् निषेधाभावात् प्रायश्चित्तानुपदेशाच्चेष्टसाधनत्व-कृतिसाध्यत्ववद् बलवदनिष्टाननुवन्धित्वमपि विधिना वोध्यते, इति न तस्या अनर्थहेतुत्वम् । श्येनादेस्त्वभिचारस्य साक्षादेव निषेधात् प्रायश्चित्तोपदेशाच्चानर्थहेतुत्वावगमात् तावन्मात्रं तत्र विधिना न बोध्यते इति संगतं श्येना-नीषोमयोर्वैलक्षण्यम्' इत्याहुः । तदप्यसत्, क्रत्वङ्गहिंसायामपि सामान्यनिषेधानुरोधेनाऽनर्थहेतुत्वावश्यकत्वात् तत्प्रायश्चित्तबोधकवेदस्याऽपि कल्पनात् । सामान्यनिषेध-विधिसंकोचे शक्यार्थत्यागेन वेदे लक्षणापक्षाश्रयणस्यातिजघन्यत्वात् ; अन्यथा 'रात्रौ श्राद्धं न कुर्वीत ' इत्यत्रापि नवो भेदवत्परत्वेन गुणविधेः, अधिकारविधेर्वा प्रसङ्गात् ; 'अमावास्यायां पितृभ्यो दद्यात्' इत्यादिविधिबोधित१ बलवदनिष्टाननुबन्धित्वम् । onal For Private & Personal Use Only |सटीकः । ॥ ७६ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy