________________
Jain Education
प्राभाकरास्तु - ' फलसाधने रागत एवं प्रवृत्तिसिद्धेर्न नियोगस्य प्रवर्तकत्वम् तेन श्येनस्य रागजन्यमवृत्तिविषयत्वेन विधेरौदासीन्याद् न तस्यानर्थहेतुत्वं विधिना प्रतिक्षिप्यते । अनीषोमीयहिंसायां तु ऋत्वङ्गभूतायां फलसाधनत्वाभावेन गाभावाद् विधिरेव प्रवर्तकः, स च स्वविषयस्याऽनर्थहेतुतां प्रतिक्षिपति, इति प्रधानभूता हिंसाऽनर्थं जनयति, न क्रत्वर्था, इति न हिंसामिश्रितत्वेन दुष्टत्वमग्नीषोमादेः' इत्याहुः ।
इदं च मतद्वयं फलतस्तुल्यमेत्र । इयांस्तु विशेषो यत्- प्राभाकरमते "चोदनालक्षणोऽर्थो धर्मः" इत्यत्रार्थपदव्यावर्त्यत्वेनाधर्मत्वं श्येनादेः । भाट्टमते तु श्येनफलस्यैवाऽभिचारस्याऽनर्थहेतुत्वादधर्मत्वम्, श्येनस्य तु विहितस्य समीहितसाधनस्य धर्मत्वमेव ; अर्थपदव्यावर्त्य तु कलिञ्जभक्षणादेर्निषिद्धस्यैव, इति फलतोऽनर्थहेतुत्वेन तु शिष्टानां श्येनादौ न धर्मत्वेन व्यव हार इति ।
तत्र भाट्टमतेऽभिचारः शत्रुवधानुकूलव्यापारः पापरूप एव इति कथं श्येनस्य नानर्थहेतुत्वम् ? इति विधिविषयेऽपि निषेधावकाश एवाssयातः, अनर्थप्रयोजकत्वस्यैव लाघवेन शिष्टप्रयोगानुरोधेन च निषेधविध्यर्थत्वे तु सुतरां तस्मादिष्टसाधनत्वमात्रमेव विध्यर्थः । फले उत्कटेच्छाविरहविशिष्टदुःखजनकत्वज्ञानमेव च प्रवृत्तिप्रतिबन्धकम् इति श्येन इव क्रत्वङ्गहिंसायामपि सामान्यनिषेधवाक्यात् प्रत्यवायजनकत्ववोधेऽपि प्रबलदोषमहिना फले उत्कटेच्छाया अविघातात् प्रवृत्तिः, इति न तत्र १ जैमिनीयसूत्रे १ १ २ २ प्रत्यवायः दोषः पापमिति यावत् ।
T
national
For Private & Personal Use Only
www.jainelibrary.org