________________
PRESPAPER
शाखवार्ता
सटीकः।
कपायपशुभिर्दष्टेधर्म-कामा-ऽर्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि विहितं बुधैः ॥३॥
प्राणिघातात्तु यो धर्ममीहते मूढमानसः । स वाञ्छात सुधावृष्टिं कृष्णाहिमुखकोटरात् ॥ ४॥" इत्यादि । ॥ ७५॥
ततो 'दुष्टमग्निष्टोमादि कर्माऽधिकारिणापि दोषासहिष्णुना त्याज्यम् , अन्तःकरणशुद्धेरीदृशेन गायत्रीजपादिनैव बाढमुपपत्तेः' इत्याहुः।
____ अत्र भाट्टाः- 'न क्रत्वर्था हिंसाऽनर्थहेतुः, विधिस्पृष्टे निषेधानवकाशात् , तथाहि-विधिना बलवदिच्छाविषयसाधनताबोधरूपां प्रवर्तनां कुर्वताऽनर्थसाधने तदनुपपत्तेः, स्वविषयस्य प्रवर्तनागोचरस्याऽनर्थसाधनत्वाभावोऽप्यर्थादाक्षिप्यते, तेन | विधिविषयस्य नानर्थहेतुत्वं युज्यते । न हि क्रत्वर्थत्वं साक्षाद्विध्यर्थः, येन विरोधो न स्यात् , किन्तु प्रवर्तनयैव; प्रवर्तना तु पुरुषार्थमेव विषयीकुर्वती कचित् क्रतुमपि तथाभावमापनं विषयीकरोति, इत्यन्यदेतत् । पुरुषप्रवृत्तिश्च बलवदिच्छोपधानदशायां जायमाना न भाव्यस्यार्थहेतुतामाक्षिपति, किन्तु यथाप्राप्तमेवाऽवलम्बते, बलवदिच्छाविषये स्वत एवं प्रवृत्तेः; स्वर्गादौ विध्यनपेक्षणात् । अत एव विहितश्येनफलस्याऽपि शत्रुवधरूपाऽभिचारस्यानर्थहेतुत्वमुपपद्यत एव, फलस्य विधिजन्यप्रवृत्तिविषय
त्वाभावात् , विधिजन्यप्रवृत्तिविषयं तु धात्वर्थ करणं प्रवर्तनाऽगाहते । सा च नाऽनर्थहेतुं विषयीकरोति । इति विशेषविधिKa बाधितं सामान्यनिषेधवाक्यं राग-द्वेषादिमूलाऽक्रत्वर्थहिंसाविषयम् । तेन श्येना-ऽग्निष्टोमयावैषम्यादुपपन्नमदुष्टत्वम् । ज्योति
टोमादेविधिस्पृष्टस्यापि निषेधविषयत्वे षोडशिग्रहणस्याप्यनर्थहेतुत्वापत्तिः, 'नातिरात्रे षोडशिनं गृह्णाति' इति निषेधात् । तस्माद् न किश्चिदेतत्' इत्याहुः।
॥७५॥
CHLORO LOCO
Jain Education intaine
For Private Personel Use Only
Mawjainelibrary.org