SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ VIDIO SOCIO स्तुतिकृता-"नोत्सृष्टमन्यार्थमपोद्यते चे" इति । प्रवृत्तिस्तु तत्र मृढानां श्येनादाविव दोषादेव । अत एव सांख्या अपि सामान्यनिषेध-विशेषविधिबोधितानर्यहेतुकत्व-क्रत्वङ्गत्वयोरेकत्र समावेशसंभवाद् निषिद्धस्यापि विहितत्वस्य, विहितस्यापि निषिद्धत्वस्य च श्येनादिवदुपपत्तेः, श्येनादाविव ज्योतिष्टोमादौ रागद्वेषादिवशीकृतस्यैवाअधिकाराज्ज्योतिष्टोमादीनां दुष्टत्वमेव प्रतिपन्नवन्तः । तथा महाभारते ___ "जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया हि भूतानां जपयज्ञः प्रवर्तते ॥१॥" इति । मनुस्मृतावपि "जपेनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः। कुर्यादन्यद् न वा कुर्याद् मैत्रो ब्राह्मण उच्यते ॥१॥" इत्यहिंसायाः प्रशंसया हिंसाया दुष्टत्वमेवोक्तम् । तथोत्तरमीमांसायामप्युक्तम् __ “अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति ॥ १॥" इति । तथा, व्यासेनाप्युक्तम् "ज्ञानपालीपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि । स्नात्वा तु विमले तीर्थे पापपङ्कापहारिणि ॥१॥ ध्यानानौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ॥ २॥ , हेमचन्द्रप्रभुणा। २ अन्ययोगव्यवच्छेदद्वात्रिंशिकायां श्लो. ११। PROOOcto पर सरल Jan Education For Private Personel Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy