________________
शास्त्रवार्ता
सटीकः।
॥७४॥
चोदितेऽपि- विहितेऽपि, तुरप्यर्थः, न ततोऽपि- दाहात् फलोद्देशेन व्याधिनिवृत्यर्थं चोदनात्- विधानाद् हेतोः, न दोपःतापलक्षणः स्यात् , किन्तु स्यादेव ॥४७॥
प्रकृते दान्तिकयोजनामाहएवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा।ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात्॥४८॥
एवं चोदनातोऽपि- क्रत्वङ्गाहिंसाविधेरपि, तत्फलभावेऽपि- तद्भोधितफलभावेऽपि, ध्रुव-निश्चितम्, सर्वथाऽन्यहिंसातुल्यतयौत्सर्गिकः सामान्यनिषेधबोधितः, दोष:- पापलक्षणः, जायते, फलचोदनात्- फलोदेशात् , तृष्णामूलकहिंसात्वेनैवाऽधर्मजनकत्वात् ।
ननु निषेधविधिनाऽनिष्टसाधनत्वमात्रबोधने ततो निवृत्त्यनुपपत्तिः, बलबदनिष्टसाधनत्वबोधने च व्याधिनिवृत्य दाहेऽपि प्रवृत्त्यनुपपत्तिः, इति विशेषनिषेधे सामान्यविधेस्तदितरपरत्ववद् विशेषविधौ सामान्यनिषेधस्यापि तदितरपरत्वमेव न्याय्यम् । अवश्यं चैतदभ्युपेयम् , कथमन्यथा तैवापि सामान्यत आधाकर्मिकादिग्रहणनिषेधेऽप्यसंस्तरणादिदशायां तद्विधानम् ? इति चेत् । न, आधाकर्मिकग्रहणा-ग्रहणयोः संयमपालनार्थमेकोद्देशेनैव विधानादुत्सर्गा-ऽपवादभावव्यवस्थितावपि, प्रकृते| ऽहिंसा-यागयोरेकार्थत्वाभावनोत्सर्गा-ऽपवादव्यवस्थाया एवाऽयोगात् । सामान्यनिषेधे संकोचस्याऽन्याय्यत्वात् । तदुक्तं
१ तव- आईतस्य । २ ग्लानाद्यनिर्वाहावस्थायाम् ।
|| ७४॥
on Education international
For Private Personel Use Only