________________
समसामना
सर्वाभूतानि " इति वेदवाक्यस्मारकयो, मतम् - अभीष्टम् । किंवत् । इन्समभिव्याहारादनिष्टसा
AMA
एतदेव भावयन्नाहन हिंस्यादिह भूतानि हिंसनं दोषकृद् मतम् । दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः॥४६॥
न हिंस्यादिह' इत्यत्रस्थेहशब्दोऽन्यत्र योज्यः, तथा च 'न हिंस्याद् भूतानीह' इत्यर्थः। इदं च "न हिंस्यात् सर्वाभूतानि" इति वेदवाक्यस्मारकम् । इह वाक्ये हिंसनं- राग-द्वेष-मोह-तृष्णादिनिबन्धनहिंसासामान्यम्, दोपकृत्अनिष्टजनकम्, स्पष्टम् - असंदिग्धतया, मतम्- अभीष्टम् । किंवत् ?, इत्याह- वैद्यके दाहवत्- 'दाहो न कार्यः' इति वैद्यकनिषेधवाक्यनिषिद्धदाहवत् । कुतः १, इत्याह-उत्सर्गप्रतिषेधतः- नसमभिव्याहारादनिष्टसाधनत्वे निरूढलाक्षणिकप्रकृतविध्यर्थस्य व्युत्पत्तिमहिम्ना निषेध्यतावच्छेदकावच्छेदेनैवाऽन्वयात् । एतेन 'नअर्थे लिडांन्वये कथं दोपकृत्त्वबोधः १, प्रकृतनिषेधविधेः पापजनकत्वे निरूढलक्षणायां च दृष्टान्तानुपपत्तिः, इति प्रकृतविध्यर्थनिषेधस्य हिंसात्वसामानाधिकरण्येनाsन्वयाद् नानुपपत्तिः' इति निरस्तम्: सामानाधिकरण्येनापि विधिशङ्काविरहेण सामान्यत एव निषेधान्वयस्वीकारात् ॥ ४६ ॥
ततः किम् , इत्याहततोव्याधिनिवृत्त्यर्थ दाहः कार्यस्तु चोदिते।न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात्४७० ___ ततो 'दाहो न कार्यः' इत्यनेन सामान्यत एव दाहस्यानिष्टसाधनत्वसिद्धेः 'व्याधिनिवृत्त्यर्थ दाहः कार्यः' इति ।
१ छान्दसत्वाद् दीर्घः, ख, ग, घ. च. 'सर्वभू' ।
Jan Education Intem
For Private
Personel Use Only
www.jainelibrary.org