SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सटीकः। शाखवार्ता तदत्र द्वितीयविकल्प एव न्याय्य इति दर्शयति॥७३॥ मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं स च । अहिंसादि च तहेतुरिति न्यायः सतां मतः॥४४॥ मुक्तिः- परमानन्दप्राप्तिः, कर्मक्षयादिष्टा- कर्मक्षयजन्याऽभिमता, स च-कर्मक्षयः, ज्ञानयोगफलम्- रत्नत्रयसाम्राज्यजन्यः, तहेतु:- तत्कारणं च, अहिंसादि-हिंसाविरतिपरिणामादि, इति- एपः, सतां जैनागमोपनिषद्वेदिनाम् , न्यायःसन्मार्गः, मतः- इष्टः । तदेवं संसारमोचकाऽऽगमाऽसारता प्रतिपादिता ॥ ४४ ॥ अथ यज्वनामागमाऽसारतां तद्वदिव प्रदर्शयतिएवं वेदविहितापि हिंसा पापाय तत्त्वतः । शास्त्रचोदितभावेपि वचनान्तरबाधनात्॥४५॥ एवम्- संसारमोचकाभिमतहिंसावत्, वेदविहितापि "श्वतं वायव्यमजमालभेत भूतिकामः" इत्यादिविधिनष्टसाधनत्वेन बोधितापि, हिंसा, तस्वतः-- युक्त्या विचार्यमाणा, पापाय भवति । विधिवोधितत्वे कथमेवं स्यात् , इत्यत्राहशास्त्रचोदितभावेऽपि- प्रकृतविधिबोधितेष्टसाधनताकत्वेऽपि, वचनान्तरवाधनात्- सामान्यतः प्रवृत्तेन निषेधविधिनाऽनिष्टसाधनत्वेन बोधनात् ॥४५॥ १ क. 'न्यं त'। २ उपनिषद्- रहस्यम् । ॥ ७३॥ Jan Education For Private Personel Use Only spww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy