________________
१३
Jain Education
हिंसात्कर्षसाध्यत्वे तदभावे- हिंसायुत्कर्षाभावे, न तत्स्थितिः - न कर्मक्षयस्थितिः, कर्मक्षयाऽस्थितौ च मुक्तानां मुक्तताक्षतिः स्यात् ॥ ४१ ॥
द्वितीय आह
तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः । कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः ॥४२॥ तद्विपर्ययसाध्यत्वे - अहिंसाद्युत्कर्ष साध्यत्वे, परसिद्धान्तसंस्थितिः - अन्याभ्युपगमप्रसङ्गः, यतः सतां - साधूनाम्, क्षयोऽहिंसादिसाधन इष्टः ॥ ४२ ॥
कर्म
तृतीय आह-
तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम् । अहेतुत्वे सदाभावोऽभावो वा स्यात्सदैव हि ॥ ४३ ॥ तदन्यहेतुसाध्यत्वे - उक्तोभयातिरिक्तसाध्यत्वे, तत्स्वरूपं तदन्यहेतुस्वरूपम्, असंस्थितम् - अनिर्वचनवाधितं बाधकम् । चतुर्थ आह-- अहेतुत्वे कर्मक्षयस्य, सदाभावः स्यात्, उत्पत्तिशीलत्वात्, हि- निश्चितम् सदैवाऽभावो वा स्यात्, अनुत्पत्तिशीलत्वात् ॥ ४३ ॥
,
१ ख ग घ च 'प्रधान' ।
For Private & Personal Use Only
sarass
www.jainelibrary.org