________________
Jain Education
44
'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवोपवर्धते ॥ १ ॥ " इति ।
इत्थं चैतदवश्यमङ्गीकर्तव्यम्, पिपासाया इव विषयेच्छायाः क्लिष्टकर्मोदयजनितत्वेन तदुपशमेनैव तदुपशमात् । तदुपशमार्थमेव च पिपासोपशमार्थ जलपानस्येव मौनीन्द्रप्रवचनवचनामृतपानस्य न्याय्यत्वादिति । अधिकमध्यात्ममतपरीक्षायाम् ॥३७॥ ॥ तदेवं मण्डलतन्त्राद्यागमो दूषितः ॥
अथ संसारमोचकागमेऽप्येतदतिदेशमाह -
संसारमोचकस्यापि हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याऽप्येष दोषोऽनिवारितः ३८
संसारमोचकस्यापि यद्— यस्मात् कारणात्, हिंसा धर्मसाधनम्, मुक्तिवास्ति 'अभ्युपगता' इति शेषः । ततःतस्मात् कारणात्, तस्याऽप्येष पूर्वोक्तदोषोऽनिवारितः, हिंसाया धर्मसाधनताया लोकदृष्टविरुद्धत्वात्, तदुत्कर्षाभावेन मुक्तत्यभावप्रसङ्गाच्च । स्यादेतत्, तृष्णानिमित्तैव हिंसा न धर्महेतुः, न तूपकारनिमित्ताऽपि, व्याधितस्याऽऽप्तवैद्येन दाहादिकरणात् ; तथाच दुःखितानां दुःखविघाताय हिंसाभ्युपगमो न विशेत्स्यत इति । मैवम्, अविरतानां हतानां जीवानां प्रेत्याऽनन्त दुःखेष्वेव नियोजनात् । किश्च, एवं सुखिनामपि पापवारणार्थं घातः स्यात्, तथाचाऽपूर्वकारुणिकस्य तव कुटुम्बधातोऽपि न्यायप्राप्तः । तस्माद् दुष्टोऽयमभिनिवेशः । दुःखकारणाऽधर्मविनाशेन धर्मे नियोजनादेव च कारुणिकत्वमुपपद्यते, इत्यार्हतमतं रमणीयम् ॥ ३८ ॥
tional
For Private & Personal Use Only
www.jainelibrary.org