SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥ ७१ ॥ Jain Education In एतदुपचयार्थमेवाह तच्चास्तु लोकशास्त्रोक्तं तत्रैौदासीन्ययोगतः । संभाव्यते परं तद्भावशुद्धेर्महात्मनः ३७ 1 तच्च-- अगम्यम्, लोकशास्त्रोक्तं-- भगिन्याद्येव, अस्तु, यादृच्छिककल्पनाया अप्रामाणिकत्वात् । तत्र - अगम्ये, औदासीन्ययोगतः- अरक्ता-द्विष्टभावेन प्रवृत्तेः, महात्मनः- दृढप्रतिज्ञस्य, भावशुद्धेः-- एकान्तविहितानुष्ठानसंपत्तेः हि--- निश्चितम् परमेतद्- माध्यस्थ्यम्, संभाव्यते, देशविरतिपरिणामेनाऽनिकाचितस्य चारित्रमोहनीयस्याऽचिरादेव क्षयसंभवात् । स्यादेतत् इच्छानिरोधाद् न तन्निवृत्तिः, किन्तु येथेच्छं प्रवृत्या सिद्धत्वज्ञानादेव । ततो योगार्थं यथेच्छं प्रवृत्तिरेवोचिता, का तत्र गम्यागम्यव्यवस्था ? | मैत्रम्, यावत्सुखसिद्धत्वधियं विना विशेषदर्शिनः सामान्येच्छाया अविच्छेदात् ; विशिष्य सिद्धत्वधियस्तु विशेषेच्छाया अनिवर्तकत्वात्; अन्यथा प्रोषितस्याऽज्ञातकान्तामरणस्य तत्कान्तावलोकनेच्छाऽभावप्रसङ्गात्, असिद्धविषये इच्छाया अनिरोधाच्च । तस्मात् सामान्येच्छाविच्छेदः सिद्धत्वज्ञानकृतो नास्ति विरक्तानाम्, किन्तु शुभादृष्टकृत एव । तच्च शुभादृष्टं विषयाऽप्रवृत्यैव भवति, तत्प्रवृत्त्या तु तत्प्रतिकूलाऽदृष्टार्जनादुत्कटेच्छेव विषये जायते । तदुक्तं पतञ्जलिनापि - “भोगाभ्यासमनुवर्धन्ते रागाः, कौशलं चेन्द्रियाणाम्” इति । गीतास्वप्युक्तम् १ 'महात्मनाम्' इति मूलपुस्तके पाठः । २ क. 'थेष्टं प्र' । For Private & Personal Use Only सटीकः । ॥ ७१ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy