________________
निवर्तते, तथा, पुण्यवत्सु मुदिताभावनात् पुण्याऽकारणानुशयनिवृत्तेस्तद्वासना निवर्तते, तथा, पापेषूपेक्षां भावयतस्तत्करणनिमित्तकानुशयनिवृत्तेस्तद्वासना निवर्तत इति । ततोऽशुक्ला-कृष्ण-पुण्यप्रवृत्ति-चित्तप्रसादाभ्यां परं माध्यस्थ्यम् । इति पातञ्जलाना प्रक्रिया ॥ ३४॥
. पराभिप्रायमाहA यावदेवंविधं नैतत्प्रवृत्तिस्तावदेव या। साऽविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात्॥३५॥
__यावदेवविध- सर्वत्राप्रवृत्तिरूपम् , एतद्- माध्यस्थ्यम् , न भवति; तावदेव या प्रवृत्तिः, साऽविशेषेण- गम्या-ऽगम्यादितुल्यतयैव, साध्वी न्याय्या, तस्य- माध्यस्थ्यस्य, 'उत्कर्षप्रसाधनात्' इति हेतोर्गम्यगमनादौ प्रवृत्तिाय्येति निगर्वः।।३५॥
अत्रोत्तरमाहनाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्तनात्। सर्वत्र भावाविच्छेदादन्यथाऽगम्यसंस्थितिः॥३६॥
इयम्- अविशेषेण प्रवृत्तिः, अप्रवृत्तेर्हेतुर्न । कुतः ?, इत्याह- कुतश्चित्- काप्यर्थे, अनिवर्तनात्- निवृत्तिप्रयत्नाभावात् , all यथालाभं सर्वत्रैव प्रवृत्तेः । इदमपि कुतः १, इत्याह- सर्वत्र विषये, भावाविच्छेदात्- इच्छानिवृत्त्यभावात् , अन्यथा-कचिदिच्छानिवृत्त्यङ्गीकारे, अगम्यसंस्थिति:-- अगम्यव्यवस्था; यदितरस्मिन् प्रवृत्तिस्तस्यैवाऽगम्यत्वादिति भावः ॥ ३६॥
POSSIODORE
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org